503

यदि नाम स्वस्वभावस्थितत्वा
द् भावानां भेद एव पारमार्थिकः तथापि
केचिद् भावा भिन्ना अपि स्वहेतुबलायातस्वरूपविशेषात् एककार्यकृत इति बुद्धे
र्विक
ल्पिकायास्तद्रूपाया एकप्रत्यवमर्शाकाराया अभेदतः कारणात् द्रवताक्लेद
हेतुरभिन्नेत्युच्यते । तदेकव्यावृत्तिविषयस्यावसायस्यानुरोधात् । एकत्वव्यवहारो न
पारमार्थिक इत्यर्थः । (२५४)

तद्वद् भेदेपि दहनो दहनप्रत्ययाश्रयः ।
येनांशेनादधद् धूमं तेनांशेन तथा गतिः ॥ २५५ ॥

तद्वत् क्षीरोदकवत् । अवान्तरभेदे सत्यपि दहनो
येनांशेन
स्वभावेन स्वरूपोष्ण
स्पर्शाद्यात्मकेनानग्निव्यावृत्तेन दहन इति प्रत्ययस्य व्यवहारस्यश्रयो विषयस्तेन
स्वभावेन धूममादधत् जनयत् धूमाश्रयो भवति (।) तेन धूमाश्रयत्वेन कारणेन
धूमालिङ्गाद् दहनो हेतुः । तथाऽनग्निव्यावृत्तित्वेन गम्यते । (२५५)

तथा हि (।)

दहनप्रत्ययाङ्गादेवान्यापेक्षात् समुद्भवात् ।
धूमोतद्व्यभिचारीति तद्वत् कार्यं तथापरम् ॥ २५६ ॥

दहनप्रत्ययस्याङ्गान्निमित्तादेवाग्निलक्षणादन्यापेक्षादार्द्रेन्धनादिसहायात् समु
दभ
वा
दुत्पत्तेः कारणाद् धूमोऽतद्व्यभिचारीति तद्वत् धूमवत् । अपरमपि2396 कार्यं तथा स्वकारणाव्यभिचारि बोद्धव्यं । (२५६)

किं पुनर्द्धूमो वह्रिं न व्यभिचरतीत्याह2397 ।

धूमेन्धनविकाराङ्गतापदे दहनस्थितेः ।
अनग्निश्चेदधूमोऽसौ सधूमश्चेत् स पावकः ॥ २५७ ॥

धूमस्येन्धनविकारादेरङ्गं हेतुस्तस्य भावो धूमेन्धनविकाराङ्गता तस्याः पदे
आश्रयवस्तुनि दहनस्थितेरग्निताव्यवहाराच्छक्रमूर्धाऽनग्निर्द्धूमेन्धनविकारकारी न
चेदिष्यते (।) ततो जायमानः पदार्थोसौ दृश्यमानो
धूमो वाष्पादिरेव । ह्यग्निजन्योऽनग्निर्भवति । सर्व्वथा साम्यात् सधूमश्चेदिष्यते तर्हि वल्मीकः
पावक एव धूमजनकस्यैव पावकत्वात् । देशकालस्वभावप्रतीतिनियमो हि भावानां
नाकस्मिकः । तथात्वेऽतिप्रसङ्गात् । न च नानाहेतुकः प्रत्येकः व्यभिचारेऽहेतुत्व
प्रसङ्गात् तस्मान्नियतहेतुकः । यदि चान्वयव्यतिरेकाभ्यामुपलब्धाग्निकारण

  1. देशादिभिन्नं विजातीयव्यावृत्त्या त्वभिन्नं ।

  2. एतदेव स्थिरयितुमाह ।