किं पुनर्द्धूमो वह्रिं न व्यभिचरतीत्याह2397 ।

धूमेन्धनविकाराङ्गतापदे दहनस्थितेः ।
अनग्निश्चेदधूमोऽसौ सधूमश्चेत् स पावकः ॥ २५७ ॥

धूमस्येन्धनविकारादेरङ्गं हेतुस्तस्य भावो धूमेन्धनविकाराङ्गता तस्याः पदे
आश्रयवस्तुनि दहनस्थितेरग्निताव्यवहाराच्छक्रमूर्धाऽनग्निर्द्धूमेन्धनविकारकारी न
चेदिष्यते (।) ततो जायमानः पदार्थोसौ दृश्यमानो
धूमो वाष्पादिरेव । ह्यग्निजन्योऽनग्निर्भवति । सर्व्वथा साम्यात् सधूमश्चेदिष्यते तर्हि वल्मीकः
पावक एव धूमजनकस्यैव पावकत्वात् । देशकालस्वभावप्रतीतिनियमो हि भावानां
नाकस्मिकः । तथात्वेऽतिप्रसङ्गात् । न च नानाहेतुकः प्रत्येकः व्यभिचारेऽहेतुत्व
प्रसङ्गात् तस्मान्नियतहेतुकः । यदि चान्वयव्यतिरेकाभ्यामुपलब्धाग्निकारण
504 103b भावो धूमः शक्र
मूर्ध्नो जायते । तदा वह्नेरेव शक्रमूर्द्धा । अथानग्निस्तथाऽदृश्य
मानत्वात् तथा सोपि न धूमो वास्यादिरेव आकारसाम्यात्तु धूमाभः । तस्मात्2398
कार्यकारणभावस्य नान्तरीयक2399तेति स्थितं ॥ (२५७)

  1. एतदेव स्थिरयितुमाह ।

  2. एवं तावत् कार्यस्य नियमः ।

  3. नियमः ।