ननु भ्रान्तमपि यद्यनुमानं प्रमाणं तदा सर्व्वैव भ्रान्तिः प्रमाणं स्यादित्याह ।

648मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः ।
मिथ्याज्ञानाविशेषेपि विशेषोर्थक्रियां प्राति ॥ ५७ ॥

मणिप्रदीपयोर्ये प्रभे तयोर्मणिबुद्ध्या मणिरेवायमित्यध्यवसायेन तद्‏ग्रहणार्थं
धावतो मिथ्याज्ञानस्य भ्रान्तत्व
स्याविशेषेपि विशेषोऽर्थक्रियाम्प्रति । मणिप्रभायां
मप्यध्यवसायी मणिसाध्यामर्थक्रियां प्राप्नोति । (५७)

  1. द्रष्टव्यं परिशिष्टं ।११