ततो लिङ्गस्वभावोत्र व्यपदेशे नियोज्यताम् ।
निवर्त्तते व्यापकस्य स्वभावस्य निवृत्तितः ॥ १९३ ॥

ततो व्याप809काभावात् व्यपदेशे धर्म्मिणि अत्र गमकत्वे साध्ये नियोज्यतां लिङ्गं । प्रतिविषयमिति व्यपदेशात् व्यापकस्य गमकत्वस्य निवृत्तितो निवर्तते नियोज्यतेति व्यापकानुपलब्ध्या तत्र नियोज्यत्वाभावः सिद्धः । (१९३)

  1. पूर्व्वार्द्धेनान्वयो द्वितीयेन व्यतिरेकः ।