ननु सांवृतारोपितकल्पनायाः कथं
प्रत्यक्षताशङ्केत्याह (।)

संकेतसंश्रयान्यार्थसमारोपविकल्पने ।
न प्रत्यक्षानुवृत्तित्वात् कदाचिद् भ्रान्तिकारणम् ॥ २९० ॥

बहूनां रूपादीनामेकार्थकारित्वख्यापनार्थं घट इत्यादिशब्दनिवेशः स संश्रयो
हेतुर्यस्याः सा संकेत936संश्रयाकल्पना दृश्यमानान्मरीचिनिचयादेरन्यस्य जलादेरा
206 रोपितस्य कल्पना । अन्यार्थकल्पना । ते एते कल्पने प्रत्यक्षानन्तरभावित्वेन
प्रत्यक्षानुवृत्तित्वादात्मन्यपि कदाचिदविमर्शकानां प्रत्यक्षता---भ्रान्तिकारणं भवतः । (२९०)

  1. संकेतः परमाणुषु । संख्यासमच्चयव्यवच्छेदेन ।