किञ्च (।)

कदाचिदन्यसन्ताने तथैवार्प्येत वाचकैः ।
दृष्टस्मृतिमपेक्षेत न भासेत परिस्फुटम् ॥ २९८ ॥
208

यथानुभवं समदेशकालस्यान्यस्य चित्तसन्ताने यथा अहिरहि
रित्युपदर्शनेन सर्पभ्रान्तिरर्प्यते । तथा द्विचन्द्रादिभ्रान्तिरपि तस्या वाचकैः
शब्दैरर्प्येत सामग्रीतुल्यत्वात् । तिमिर
स्य चाहेतुकत्वात् । अपि च(।) यथा मरीचिषु
तरङ्गजलसमासु पूर्व्वदृष्टजलस्मरणसापेक्षा जलभ्रान्तिः । तत्र द्विचन्द्रादिभ्रान्तिरपि
मानसीत्वात् दृष्टचन्द्रद्वयस्मृतिमपेक्षेत । न चेयं स्मरणसापेक्षा चक्षुर्व्विस्फारण
मात्रेण स्फरणात् । 944 तथा मानसीत्वात् परिस्फुटं सुव्यक्तग्राह्याकारा न भासेत ।945
जलादिभ्रान्तिरिव । (२९८)

  1. न विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासिता ।

  2. कल्पनापोढवचनादेव निवृत्तेः । अभ्रान्तत्वे यत्नवैर्थ्यं स्यात् ।