359 नास्ति
विरक्त1772चेत इत्याद्य1773युक्तं (।) न च कारणमित्येव कार्याण्यव्यवधानतो
भवन्ति (।) ततो नास्ति दानहिंसाविरतिचेतनानामभ्युदयहेतुता फलानन्तर्या
भावादित्ययुक्तं1774। (२००)

कार्ये तु कारकाज्ञानमभावस्यैव साधकम् ।

कारकाज्ञान1775न्तु कार्येऽभावस्यैव साधकं (।) न ह्यसति कारणे कार्यसंभवः1776 ॥

स्वभावानुपलम्भश्च स्वभावेर्थस्य लिङ्गिनि ॥ २०१ ॥
तदभावः प्रतीयेत हेतुना यदि केनचित् ॥

तथार्थस्य व्यापकतया निश्चितस्य स्वभावस्यानुपलम्भश्च स्वभावे व्याप्ये
लिङ्गिन्यसत्तया साध्ये साधनं
तदा च कारणव्यापकानुपलब्धी गमिके यदि केन चिद्धेतुनोपलब्धिलक्षणप्राप्तानुपलम्भेनान्येन वा तयोः कारणव्यापकयोरभावः प्रती
यते (।) न तूपलम्भाभावमात्रेण सन्दिग्धासिद्धत्वात् ।

ख. स्वभावानुपलब्धिः

स्वभावानुपलम्भमाह ।

दृश्यस्य दर्शनाभावकारणाऽसम्भवे सति ॥ २०२ ॥
भावस्यानुपलम्भस्य भावाभावः प्रतीयते ।

दृश्यस्य वस्तुनो दर्शनाभावस्य यत् कारणं व्यवधानेन्द्रियवैकल्यादि तस्यासम्भवे सति भावस्यानुपलब्धस्य भाव (=सत्ता)ाभावः स्वभा
वानुपलब्धेः प्रतीयते ॥

ग. अनुपलब्धिरेवाभावः

विरुद्धस्य च भावस्य भावे तद्भावबाधनात् ॥ २०३ ॥
तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चयः ।
  1. अनुमानिवृत्तिरुक्ता लिङ्गाज्ञानेन ।

  2. हिंसाविरतिचेतनादेर्नाभ्युदयहेतुतादि ।

  3. मूषिकादिविषविकारवद् व्यवहितं फलं स्यात् ।

  4. कारणानुपलम्भः साध्येऽनुपलब्धिर्या दृश्योपि ।

  5. यदि कथञ्चित् कारणाभावः सिध्येत् तदा कार्याभावः साध्यः यथा नात्र
    धूमोनग्नेः ।