क्वचिदुपाधिभेदो विशेषणविशेषो भिन्नो1730ऽभिन्नो1731 वा तदपेक्षः । केवलो विशेषणरहितः शुद्धोथवा साध्यसिध्यर्थमुच्यते1732 नाशे कार्यत्वसत्त्ववत् । नाशे
साध्ये कार्यत्वं भिन्नविशेषणापेक्षः स्वभावः तज्जन्मन्यपेक्षितप
रव्यापारस्य
कार्यत्वात् । एवं प्रत्ययभेदभेदित्वादयो द्रष्टव्याः । उत्पत्तिमत्वं पुनरभिन्न
विशेषणमुत्पत्त्या स्वभावभूतया कल्पितभेदया विशेषणात् । सत्त्वन्तु केवलं नाश
एव साध्ये स्वभावो विशेषणानुपादानात् ।
ननु स1733त्तास्वभावो हेतुश्चेदभिमतः सामान्यरूपो विशेषस्यानन्वयात् । तदा
सा सत्ता प्रधाना1734ख्या सर्व्वव्यक्तिव्यापिनी कथं साध्यतेऽचे
1735तनत्वा
दिहेतोः । अथ भेदानां परस्परमत्यन्तं भेदेनानन्वयान्न साध्यते तदा सोयं भेदाना
मनन्वयो हि हे1736तुसाध्ययोर्व्याहितः ।
अर्थानन्वयिनः साध्यता न युक्ता तथा साधनतापि । तत् कथं सत्त्वं साधनं
(।) तस्मात् सत्ता सामान्यं साध्यञ्च 1737 साधनञ्चानन्वयात् स्यात् 1738 ।
अत्राह ।
भावः सत्ता सा उपादानं विशेषणं यस्य स भावोपादानः । स एव केवलस्त
न्मात्रं तस्मिन्
साध्ये सामान्यधर्मिणि सामान्यधर्मवति न कश्चिदर्थः प्रधान-70a
-
यद्यपि कृतके सत्त्वमस्ति तथापि हेतुकृतोयं कृतक एतन्मात्रम्विवक्षितं
↩
न सामर्थ्यं । -
स्थानकारणादिप्रत्ययभेदित्वपुरूषप्रयत्नजत्वं स्वभावभूतधर्मभेदेनोत्पत्ति
↩
मत्त्वं । -
अनित्ये कृतकमुपाधिभेदापेक्षं सत्त्वमनपेक्षं ।
↩ -
सत्त्वे
↩ -
सांख्यस्यास्ति प्रधानमिति साध्यं ।
↩ -
अथ सत्तायाः सामान्ये साध्ये सिद्धसाध्यताऽतो विशेषः साध्यः तत्रान्वयात्
↩
साध्यशून्यो दृष्टान्तोतो न सत्ता । -
सत्त्वहेतावसाध्यशून्यो दृष्टान्तविशेषाणां दुष्टो हेतौ साध्यं च ।
↩ -
असिद्धत्वात् ।
↩ -
इति सांख्योक्तौ बौद्धो दोषमाह ।
↩