कार्ये तु कारकाज्ञानमभावस्यैव साधकम् ।

कारकाज्ञान1775न्तु कार्येऽभावस्यैव साधकं (।) न ह्यसति कारणे कार्यसंभवः1776 ॥

स्वभावानुपलम्भश्च स्वभावेर्थस्य लिङ्गिनि ॥ २०१ ॥
तदभावः प्रतीयेत हेतुना यदि केनचित् ॥

तथार्थस्य व्यापकतया निश्चितस्य स्वभावस्यानुपलम्भश्च स्वभावे व्याप्ये
लिङ्गिन्यसत्तया साध्ये साधनं
तदा च कारणव्यापकानुपलब्धी गमिके यदि केन चिद्धेतुनोपलब्धिलक्षणप्राप्तानुपलम्भेनान्येन वा तयोः कारणव्यापकयोरभावः प्रती
यते (।) न तूपलम्भाभावमात्रेण सन्दिग्धासिद्धत्वात् ।

ख. स्वभावानुपलब्धिः

स्वभावानुपलम्भमाह ।

दृश्यस्य दर्शनाभावकारणाऽसम्भवे सति ॥ २०२ ॥
भावस्यानुपलम्भस्य भावाभावः प्रतीयते ।

दृश्यस्य वस्तुनो दर्शनाभावस्य यत् कारणं व्यवधानेन्द्रियवैकल्यादि तस्यासम्भवे सति भावस्यानुपलब्धस्य भाव (=सत्ता)ाभावः स्वभा
वानुपलब्धेः प्रतीयते ॥

ग. अनुपलब्धिरेवाभावः

विरुद्धस्य च भावस्य भावे तद्भावबाधनात् ॥ २०३ ॥
तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चयः ।
360

विरुद्धस्य1777 निवर्त्तकस्य वह्नयादेर्भावस्य भावे तस्य (?स)लिलादेर्निवर्त्त्यस्य
भावबाधनात् । तद्विरुद्धोपलब्धौ सत्यामसत्ता1778या विनिश्चयः स्यात् ।

नन्वनुपलब्धेरभावसाधने को दृष्टान्तः । व्योमकुसुमादिरिति चेत् । अत्रापि
यद्यनुपलब्धेरभावसिद्धिस्तदा दृष्टान्तान्तरापेक्षायामनवस्थाप्रसङ्गः । तदनपेक्षायां
तदनुपलब्धिरभावाख्यं प्रमाणम
स्तु ।

असम्बद्धमेतत् । न ह्यभावोऽनुपलब्ध्या साध्यते । अनुपलब्धि1779रेव ह्यभावः
स च सिद्ध एव । तथापि तु मूढः1780 तमव्यवहरन् निमित्तो1781पदर्शनेन व्यवहार्यते1782 ।
तथा च भावो1783ऽभावस्य दष्टान्तः1784 । तयोः स्वनैमित्तिक1785प्रवर्त्तनस्य सिद्धत्वात् ।

ननु यदिदं1786न सन्ति प्रधानादयोऽनुपलब्धेरिति तत्र कथमसद्वयवहारविधिः
सद्व्यवहारप्रतिषेधो वा । प्रधानादिशब्दवाच्यस्य
प्रतिषेधे त1787च्छब्दाप्रयोगात्1788

अत्राह ।

अनादिवासनोद्भूतविकल्पपरिनिष्ठितः ॥ २०४ ॥
शब्दार्थस्त्रिविधो धर्मो भावाभावोभयाश्रयः ।

अनादिविकल्पाभ्यासवासनाया उद्भूतविकल्पे परिनिष्ठितः प्रतिभासमानः
शब्दार्थो धर्मो त्रिविधः । कथ1789मित्याह (।) भावाभावोभयाश्रयः । सदसदुभय
361 विकल्पवासनाप्रभवत्वात् । तदध्यवसायेन तद्विषयत्वात् । तत्र भावोपादानो विकल्पः पटादिरभावोपादानः शशविशा (?षा) णादिः । उभयोपादानः प्रधाने
श्वरादिः ।

तस्मिन् भावानुपादाने साध्येऽस्यानुपलम्भनम् ॥ २०५ ॥
तथा हेतुर्न तस्यैवाभावः शब्दप्रयोगतः ।

तस्मि
न्
शब्दार्थे प्रधानादौ भावानुपादाने भावभूतप्रधानाश्रये साध्येऽस्य71b
प्रधाना1790देस्तथा (बाह्य) भावाश्रयत्वेनानुपलम्भनं हेतु1791र्व्यवहारसाधनः । न तु
तस्य1792 शब्दार्थस्यैवाभावः प्रधानादिशब्दस्य तत्प्रतिपादकस्य प्रयोगतः1793 ॥

यदि तु वस्त्वेव शब्दविषयस्तदा (।)

परमार्थैकतानत्वे शब्दानामनिबन्धना ॥ २०६ ॥
न स्यात् प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु ।

परमार्थै1794कतानत्वे परमार्थैकपर(वृत्ति)त्वे शब्दानामर्थेषु दर्शनान्तरभेदिषु प्रतिदर्शनं भिन्नाभ्युप1795
मेन नित्यत्वानित्यत्वत्रिगुणीमयत्वादिकल्पितभेदेषु
अनिबन्धना
परमार्थनिबन्धनरहिता प्रवृत्तिर्न स्यात् । न हि परस्परविरुद्धा बहवो
धर्मा एकत्र सन्ति ।

अतीताजातयोर्वापि न च स्यादनृतार्थता ॥ २०७ ॥
वाचः कस्याश्चिदित्येषा बौद्धार्थविषया मता ।

अतीताजातयोर्व्वप्यसतोर्न स्याच्छब्दवृत्तिः । न च कस्याश्चिद् वाचोऽनृ
तार्थता स्यात्
 । अर्थमन्तरेण शब्दाभावात् । यस्मादेते दोषा वस्तुविषयत्वे वाच
इति तस्मादेषा बौद्धा1796र्थविषया कल्पि1797तार्थगोचरा मता ।

यश्च शब्दार्थः
तस्य भावानुपादानत्वं साध्यते न तु स एव निषिध्यतेऽन्यथा (।)

शब्दार्थापह्नवे साध्ये धर्माधारनिराकृतेः ॥ २०८ ॥
न साध्यः समुदायः स्यात् सिद्धो धर्मश्च केवलः ।
362

शब्दार्थस्यापह्नवे साध्ये धर्माधार1798स्य धर्मिणो1799 निराकृतेः समुदायः साध्यो
न स्यात्
 । धर्मिधर्मसमुदायश्चानुमेयः । धर्म एव केवलः साध्यते इति चेत् सिद्धो1800
धर्मश्चा
भावादिः केवलः (।) किमर्थं साधनीयः प्रधानादिविकल्पस्य भावानुपा
दानत्वं तु न सिद्धं तदेव साध्यं
युक्तं ।

किञ्च1801 (।)

सदसत्पक्षभेदेन शब्दार्थानपवादिभिः ॥ २०९ ॥
वस्त्वेव चिन्त्यते ह्यत्र प्रतिबद्धः फलोदयः ।

सदसत्पक्षभेदेन वस्त्वेव व्यवहारिभिः शब्दार्थानपवादिभिः चिन्त्यते नावस्तु ।
हि यस्माद् अत्र वस्तुनि फलस्यार्थक्रियाया उदयः प्रतिबद्धः ।

ततश्च (।)

अर्थक्रियाऽसमर्थस्य विचारैः किं तद््र्थिनाम् ॥ २१० ॥
षण्ढस्य रूपे वैरूप्ये कामिन्या किं परीक्षया ।

अर्थक्रियायामसमर्थस्य शब्दार्थादेर्व्विचारैः सदसत्पक्षचिन्ताभिस्तदर्थिनामर्थ
क्रियार्थिनां किं न किञ्चित् प्रयोजनं1802 (।) षण्ढस्य नपुन्सकस्य रूपे वैरूप्ये वा
कामिन्या वृषस्यन्त्या
योषितः किं परीक्षया ।1803

घ. कल्पितस्यानुपलब्धिर्धर्मः

यत् पुनराचार्येणोक्तं कल्पितस्यानुपलब्धिर्द्धर्म्म इति तस्य कोर्थः ।1804

शब्दार्थः कल्पनाज्ञानविषयत्वेन कल्पितः ॥ २११ ॥
धर्मो वस्त्वाश्रयाऽसिद्धिरस्योक्ता न्यायवादिना ।

कल्पनाज्ञानस्य विषयत्वेन कल्पित इष्टः प्रधानादिशब्दार्थः । अस्य1805 कल्पितस्य
वस्त्वा1806श्रयाऽसिद्धिर्व्वस्त्वाधिष्ठानत्वानुपलब्धिर्द्धर्मो न्यायवादिनाचार्येणोक्ता ।

  1. कारणानुपलम्भः साध्येऽनुपलब्धिर्या दृश्योपि ।

  2. यदि कथञ्चित् कारणाभावः सिध्येत् तदा कार्याभावः साध्यः यथा नात्र
    धूमोनग्नेः ।

  3. यदभावः साध्यस्तद्विरुद्धस्यानयोरुपादानयोरन्योन्यवैगुण्यस्याश्रयत्वेनारम्भ
    विरोधात् ।

  4. प्रतिषेध्यस्य ।

  5. उपलब्धिलक्षणप्राप्तस्य ।

  6. अभावतत्स्वभावानुपलब्धावभावव्यवहार एव साध्यते ।

  7. अनुपलम्भेन ।

  8. व्यवहारं ।

  9. निरुपाख्योपि ।

  10. यथा दृश्यः सन् दृश्यते तथा दृश्योऽसन्ननुपलब्धेः ।

  11. उपलब्ध्यनुपलब्ध्योर्भावाभावव्यवहारप्रवर्त्तनस्य । यस्य यत्र निमित्तं सक
    लमप्रतिबद्धमस्ति तत्र तेन भवितव्यं यथाऽङ्कुरादि । अस्ति चोपलब्धिलक्षणप्राप्त
    स्यानुपलब्धावसद्व्यवहारनिमित्तमिति स्वभावहेतुः अनुपलब्धिः ।

  12. (दिग्) नागादिनोक्तं ।

  13. वाच्यम्विना वाचकाप्रयोगात् प्रधानं ।

  14. प्रधानशब्दाप्रयोगे प्रतिषेधोपि प्रतिषेध्याकीर्त्तनान्निर्व्विषयस्याप्रयोगाद
    युक्त इति चोदकाशयः ।

  15. कथं भावाश्रयोर्थजन्यत्वेनाविकल्पत्वप्रसङ्गात् कथमभावाश्रयस्तस्याकार
    णत्वात् । उभयेऽहेतुकत्वात् त्यक्तः ।

  16. बुद्धिवर्त्तिनो धर्मिणः ।

  17. प्रधानादिविकल्पप्रतिभासस्य बाह्योपादानत्वानुपलम्भोस्तीति नापक्षधर्मः ।

  18. विकल्पस्थस्य ॥

  19. यदि स्वलक्षणमभिधेयं स्यात् तदा तत्प्रतिषेधेऽनर्थकस्य शब्दस्याप्रयोगः
    स्यात् न चैतत् ।

  20. स्वलक्ष (त्वे)

  21. सिद्धान्त (त्वे) ।

  22. वाक् ।

  23. विकल्पभासी ।

  24. नास्तित्वं साध्यो धर्मः सिद्धान्ती ।

  25. प्रधानादिशब्दार्थस्य ।

  26. नास्तित्वमात्रस्य क्वचित् सिद्धत्वात् ।

  27. प्रतिज्ञा ।

  28. दृष्टान्तमाह ।

  29. उ द्यो त क रा द्युक्तदोषनिरासाय पृच्छति नागेन (? दिग्नागः ) ।

  30. उत्तरमाह ।

  31. प्रधानादिशब्दार्थस्य ।

  32. वस्तुनो बाह्यस्य प्रधानस्याश्रयणं तेनासिद्धिरनुपलब्धिर्द्धर्म उक्तो लिङ्गभूतो
    भावानुपादानत्वे साध्ये प्रमाणेन चेत् सत्त्वं प्रधानस्य । नानुपलब्धिः धर्मः ।
    असत्त्वेप्यसत्त्वादिति परोक्तमपास्तमनेन शब्दार्थस्यैव कल्पितत्वात् ।