विरुद्धस्य1777 निवर्त्तकस्य वह्नयादेर्भावस्य भावे तस्य श(?स)लिलादेर्निवर्त्त्यस्य
भावबाधनात् । तद्विरुद्धोपलब्धौ सत्यामसत्ता1778या विनिश्चयः स्यात् ।
नन्वनुपलब्धेरभावसाधने को दृष्टान्तः । व्योमकुसुमादिरिति चेत् । अत्रापि
यद्यनुपलब्धेरभावसिद्धिस्तदा दृष्टान्तान्तरापेक्षायामनवस्थाप्रसङ्गः । तदनपेक्षायां
तदनुपलब्धिरभावाख्यं प्रमाणम
स्तु ।
असम्बद्धमेतत् । न ह्यभावोऽनुपलब्ध्या साध्यते । अनुपलब्धि1779रेव ह्यभावः
स च सिद्ध एव । तथापि तु मूढः1780 तमव्यवहरन् निमित्तो1781पदर्शनेन व्यवहार्यते1782 ।
तथा च भावो1783ऽभावस्य दष्टान्तः1784 । तयोः स्वनैमित्तिक1785प्रवर्त्तनस्य सिद्धत्वात् ।
ननु यदिदं1786न सन्ति प्रधानादयोऽनुपलब्धेरिति तत्र कथमसद्वयवहारविधिः
सद्व्यवहारप्रतिषेधो वा । प्रधानादिशब्दवाच्यस्य
प्रतिषेधे त1787च्छब्दाप्रयोगात्1788।
अत्राह ।
अनादिविकल्पाभ्यासवासनाया उद्भूतविकल्पे परिनिष्ठितः प्रतिभासमानः
शब्दार्थो धर्मो त्रिविधः । कथ1789मित्याह (।) भावाभावोभयाश्रयः । सदसदुभय
-
यदभावः साध्यस्तद्विरुद्धस्यानयोरुपादानयोरन्योन्यवैगुण्यस्याश्रयत्वेनारम्भ
↩
विरोधात् । -
प्रतिषेध्यस्य ।
↩ -
उपलब्धिलक्षणप्राप्तस्य ।
↩ -
अभावतत्स्वभावानुपलब्धावभावव्यवहार एव साध्यते ।
↩ -
अनुपलम्भेन ।
↩ -
व्यवहारं ।
↩ -
निरुपाख्योपि ।
↩ -
यथा दृश्यः सन् दृश्यते तथा दृश्योऽसन्ननुपलब्धेः ।
↩ -
उपलब्ध्यनुपलब्ध्योर्भावाभावव्यवहारप्रवर्त्तनस्य । यस्य यत्र निमित्तं सक
↩
लमप्रतिबद्धमस्ति तत्र तेन भवितव्यं यथाऽङ्कुरादि । अस्ति चोपलब्धिलक्षणप्राप्त
स्यानुपलब्धावसद्व्यवहारनिमित्तमिति स्वभावहेतुः अनुपलब्धिः । -
(दिग्) नागादिनोक्तं ।
↩ -
वाच्यम्विना वाचकाप्रयोगात् प्रधानं ।
↩ -
प्रधानशब्दाप्रयोगे प्रतिषेधोपि प्रतिषेध्याकीर्त्तनान्निर्व्विषयस्याप्रयोगाद
↩
युक्त इति चोदकाशयः । -
कथं भावाश्रयोर्थजन्यत्वेनाविकल्पत्वप्रसङ्गात् कथमभावाश्रयस्तस्याकार
↩
णत्वात् । उभयेऽहेतुकत्वात् त्यक्तः ।