शब्दार्थस्यापह्नवे साध्ये धर्माधार1798स्य धर्मिणो1799
निराकृतेः समुदायः साध्यो
न स्यात् । धर्मिधर्मसमुदायश्चानुमेयः । धर्म एव केवलः साध्यते इति चेत् सिद्धो1800
धर्मश्चाभावादिः केवलः (।) किमर्थं साधनीयः प्रधानादिविकल्पस्य भावानुपा
दानत्वं तु न सिद्धं तदेव साध्यं
युक्तं ।
किञ्च1801 (।)
सदसत्पक्षभेदेन वस्त्वेव व्यवहारिभिः शब्दार्थानपवादिभिः चिन्त्यते नावस्तु ।
हि यस्माद् अत्र वस्तुनि फलस्यार्थक्रियाया उदयः प्रतिबद्धः ।
ततश्च (।)
अर्थक्रियायामसमर्थस्य शब्दार्थादेर्व्विचारैः सदसत्पक्षचिन्ताभिस्तदर्थिनामर्थ
क्रियार्थिनां किं न किञ्चित् प्रयोजनं1802 (।) षण्ढस्य नपुन्सकस्य रूपे वैरूप्ये वा
कामिन्या वृषस्यन्त्या
योषितः किं परीक्षया ।1803
घ. कल्पितस्यानुपलब्धिर्धर्मः
यत् पुनराचार्येणोक्तं कल्पितस्यानुपलब्धिर्द्धर्म्म इति तस्य कोर्थः ।1804
कल्पनाज्ञानस्य विषयत्वेन कल्पित इष्टः प्रधानादिशब्दार्थः । अस्य1805 कल्पितस्य
वस्त्वा1806श्रयाऽसिद्धिर्व्वस्त्वाधिष्ठानत्वानुपलब्धिर्द्धर्मो न्यायवादिनाचार्येणोक्ता ।
४. आगमचिन्ता
-
नास्तित्वं साध्यो धर्मः सिद्धान्ती ।
↩ -
प्रधानादिशब्दार्थस्य ।
↩ -
नास्तित्वमात्रस्य क्वचित् सिद्धत्वात् ।
↩ -
प्रतिज्ञा ।
↩ -
दृष्टान्तमाह ।
↩ -
उ द्यो त क रा द्युक्तदोषनिरासाय पृच्छति नागेन (? दिग्नागः ) ।
↩ -
उत्तरमाह ।
↩ -
प्रधानादिशब्दार्थस्य ।
↩ -
वस्तुनो बाह्यस्य प्रधानस्याश्रयणं तेनासिद्धिरनुपलब्धिर्द्धर्म उक्तो लिङ्गभूतो
↩
भावानुपादानत्वे साध्ये प्रमाणेन चेत् सत्त्वं प्रधानस्य । नानुपलब्धिः धर्मः ।
असत्त्वेप्यसत्त्वादिति परोक्तमपास्तमनेन शब्दार्थस्यैव कल्पितत्वात् ।