(१) पौरुषेयत्वे

क. पुरुषातिशयप्रणीतं वचनं प्रमाणम्

किन्तु (।)

अयमेवं न वेत्यन्यदोषानिर्दोषतापि वा ।
दुर्लभत्वात् प्रमाणानां दुर्बोधेत्यपरे विदुः ॥ २१९ ॥

अयं पुमानेवंदोषवान् न वा निर्दोष इत्यन्यस्य
दोषा निर्दोषतापि वा प्रमा
णानां1824 दुर्लभत्वाद् दुर्बोधे1825त्यपरे
सौ ग ता विदुः । दुर्ब्बोधेत्यन्यदोषा इत्यनेन72b
लिङ्ग1826 वचनविपरिणामेन सम्बन्धनीयं ।

366 तत्किमशक्योच्छेदा दोषा नेत्याह ।

सर्व्वेषां सविपक्षत्वान्निर्ह्नासातिशयं श्रितः ।
सात्मीभावात् तदभ्यासाद् हीयेरन्नास्रवाः क्वचित् ॥ २२० ॥

सर्व्वेषामास्रवाणां रागादीनां
प्रतिपक्षसंमुखीभावाभावयोर्न्निर्ह्रासातिशयावुपच
यापचयौ श्रयन्त इति निर्ह्रासातिशयं श्रितस्तेषां सविपक्षत्वात् प्रतिपक्ष1827सम्भवात्
तस्य प्रतिपक्षस्याभ्यासात् सात्मीभावादास्रवा क्व1चिच्चित्तसन्ताने हीयेरन्निति
खलु निर्दोषपुरुषापलापः क्रियते किन्तु तदवधारणोपायो नास्तीत्युच्यते । इच्छा
धीनस्य व्याहारस्यान्यथापि कर्त्तुं शक्यत्वात् । न ततस्तथार्थनिश्चयः ।

अथ सात्मीयभूतप्रतिपक्षस्य मार्गाभ्यासान्निर्दोषतायामपि सत्यां विपक्षाभ्या
सात् पुनर्दोषोत्पत्तिरित्याह ।

निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।
न बाधा यत्नवत्वेऽपि बुद्धेस्तत्पक्षपाततः ॥ २२१ ॥

निरुपद्रवस्य दोषराशेरुद्वेजकस्य प्रहाणात् । भूतार्थस्य प्रमाणपरिदृष्टा1828र्थ
विषयत्वात् । स्व1829भावस्यानारोपितत्वात् (।) मार्गसात्म्यस्य विपक्षेण न बाधा
यत्नवत्वेपि
 । यत्न एव तावन्न सम्भवति विपक्षाभ्यासे दोषदर्शनात् । यत्नवत्वेपि तु बुद्धेस्तत्र मार्गसात्म्येऽभिरुचिविषयत्वेन पक्षपाततो1830 न बाधा । न हि रज्वां
निवृत्तसर्प्पभ्रमः सर्प्पं भावयितुं यतते कश्चित् (।) भूतार्थस्य दर्शनात् ।

ख. सत्कायदर्शनं दोषकारणम्

कः पुनर्दोषाणां हेतुर्यत्प्रहाणादमी प्रहीयन्त इत्या3ह ।

सर्व्वासां दोषजातीनां जातिः सत्कायदर्शनात् ।

सर्व्वासां दोषजातीनां दोषप्रकाराणां जातिर्जन्म सत्कायदर्शनादात्माभिनिवे
शात् ।

नन्वविद्याहेतुकाः क्लेशा भ ग व तो क्तो इत्याह ।

साऽविद्या तत्र तत्स्नेहस्तस्माद् द्वेषादिसम्भवः ॥ २२२ ॥
367

साऽविद्या सत्कायदर्शनमेवाविद्याऽन्यत्रोच्यत इति नास्ति विरोधः । तत्र सत्कायदर्शने सति तेष्वात्मीयेषु स्नेहस्तस्मादात्मीयेषु स्नेहात् तदपकारिषु द्वेषा
दी
नां सम्भव इति दोषोत्पत्तिक्रमः । अतो नैरात्म्यदर्शनं मा
र्गो युक्तः सत्काय
दृष्टिप्रतिपक्षत्वात् ।

यतश्च सत्त्वदृष्टिरविद्या ।

मोहो निदानं दोषाणां अत्र एवाभिधीयते ।
सत्कायदृष्टिरन्यत्र;

अत एव मोहोऽविद्या दोषाणां निदानमभिधीयते । भगवताऽविद्या हेतुकाः
सर्वै क्लेशा
इति पुनरन्यत्र प्रदेशे सत्कायदृष्टिर्दोषनिदानम भिधीयते ।

नन्वन्येपीन्द्रियविषया योनिशोमनस्कारादयो दोषहेतवस्तत्किमविद्या
सत्कायदृष्टी एवाभिहिते इत्याह ।

तत्प्रहाणे प्रहाणतः ॥ २२३ ॥

तस्य मोहस्य सत्कायदृष्टि
लक्षणस्य प्रहाणे दोषाणां प्रहाणतः प्राधान्यात्
स एवोक्तो नेतर इत्यर्थः ॥ (२२३)

  1. अन्यगुणदोषनिश्चायकानां ।

  2. चैतसानामतीन्द्रियत्वात् नापि रागाद्यनुमेयाः कायवचसां प्रतिसंख्ययान्यथात्वस्य शक्यत्वात् ।

  3. पुल्लिङ्गबहुवचनं कृत्वा ।

  4. नैरात्म्यस्य ।

  5. भूतार्थत्वादेव मार्गश्चित्तस्य स्वभाव उक्तः ।

  6. दोषप्रतिपक्षस्य विपर्ययैः सो यत्राभूतार्था स्वभावैर्दोषैः न बाधार्थः श्रोत्रियः
    सन् कापालिको भवति तस्य पूर्व्वा घृणा यथाऽयत्नमशक्यनिवर्त्त्या तद्वत् ।

  7. बहुमानतः ।