366 तत्किमशक्योच्छेदा दोषा नेत्याह ।
सर्व्वेषामास्रवाणां रागादीनां
प्रतिपक्षसंमुखीभावाभावयोर्न्निर्ह्रासातिशयावुपच
यापचयौ श्रयन्त इति निर्ह्रासातिशयं श्रितस्तेषां सविपक्षत्वात् प्रतिपक्ष1827सम्भवात्
तस्य प्रतिपक्षस्याभ्यासात् सात्मीभावादास्रवा क्व1चिच्चित्तसन्ताने हीयेरन्निति
खलु निर्दोषपुरुषापलापः क्रियते किन्तु तदवधारणोपायो नास्तीत्युच्यते । इच्छा
धीनस्य व्याहारस्यान्यथापि कर्त्तुं शक्यत्वात् । न ततस्तथार्थनिश्चयः ।
अथ सात्मीयभूतप्रतिपक्षस्य मार्गाभ्यासान्निर्दोषतायामपि सत्यां विपक्षाभ्या
सात् पुनर्दोषोत्पत्तिरित्याह ।
निरुपद्रवस्य दोषराशेरुद्वेजकस्य प्रहाणात् । भूतार्थस्य प्रमाणपरिदृष्टा1828र्थ
विषयत्वात् । स्व1829भावस्यानारोपितत्वात् (।) मार्गसात्म्यस्य विपक्षेण न बाधा
यत्नवत्वेपि । यत्न एव तावन्न सम्भवति विपक्षाभ्यासे दोषदर्शनात् । यत्नवत्वेपि तु बुद्धेस्तत्र मार्गसात्म्येऽभिरुचिविषयत्वेन पक्षपाततो1830 न बाधा । न हि रज्वां
निवृत्तसर्प्पभ्रमः सर्प्पं भावयितुं यतते कश्चित् (।) भूतार्थस्य दर्शनात् ।
ख. सत्कायदर्शनं दोषकारणम्
कः पुनर्दोषाणां हेतुर्यत्प्रहाणादमी प्रहीयन्त इत्या3ह ।
सर्व्वासां दोषजातीनां दोषप्रकाराणां जातिर्जन्म सत्कायदर्शनादात्माभिनिवे
शात् ।
नन्वविद्याहेतुकाः क्लेशा भ ग व तो क्तो इत्याह ।