साऽविद्या सत्कायदर्शनमेवाविद्याऽन्यत्रोच्यत इति नास्ति विरोधः । तत्र सत्कायदर्शने सति तेष्वात्मीयेषु स्नेहस्तस्मादात्मीयेषु स्नेहात् तदपकारिषु द्वेषा
दीनां सम्भव इति दोषोत्पत्तिक्रमः । अतो नैरात्म्यदर्शनं मा
र्गो युक्तः सत्काय
दृष्टिप्रतिपक्षत्वात् ।
यतश्च सत्त्वदृष्टिरविद्या ।
अत एव मोहोऽविद्या दोषाणां निदानमभिधीयते । भगवताऽविद्या हेतुकाः
सर्वै क्लेशा इति पुनरन्यत्र प्रदेशे सत्कायदृष्टिर्दोषनिदानम
भिधीयते ।
नन्वन्येपीन्द्रियविषया योनिशोमनस्कारादयो दोषहेतवस्तत्किमविद्या
सत्कायदृष्टी एवाभिहिते इत्याह ।
तस्य मोहस्य सत्कायदृष्टि
लक्षणस्य प्रहाणे दोषाणां प्रहाणतः प्राधान्यात्
स एवोक्तो नेतर इत्यर्थः ॥ (२२३)
५. अपौरुषेयत्वे
(१) वेदप्रामाण्यनिरासः
वेदप्रमाण्यं निराचिकीर्षन् परमतमुत्थापयति ।
गिरां वाचां मिथ्यात्वं1831स्य हेतूनां दोषाणामज्ञानविसम्वादाभिप्रायादीनां वा
पुरुषस्याश्रयादाश्रयणत्वात् अपौरुषेयं वाक्यं मिथ्यात्वहेतोः पुरुषदोषस्याभावात्
सत्यार्थमिति केचित् जै मि नी याः प्रचक्षते ॥
(२२४)
-
मृष (ा)र्थत्वस्य ये हेतवो दोषा रागादयस्तेषां वाचश्च पुरुष आश्रयस्तैः
↩
पुरुषस्य परिगृहीतत्वादप्रमाणत्वं (।) द्विधा शब्दार्थो निसर्गसिद्धो वेदादौ औपाधिकः
पुरुषाधीनोन्यत्र । न मिथ्यात्वं वेदे पुरुषनिवृत्तेः । न संशयोऽप्रतिभासात् । नाज्ञानं
वेदादर्थगतेः (।) पुरुषकारणाभावान्मिथ्यात्वकार्याभावसिद्धिः ।