365 गत्या । अत्यन्तपरोक्षेष्वर्थेषु दानहिंसाचेतनादिष्वर्थानर्थश्रवणादागमप्रामाण्य
मनाश्रित्य स्थातुमसामर्थ्यादेतद्भावे विरोधाभावाच्च सत्यां प्रवृत्तौ1820 वर
मेवं
प्रवृत्तिरित्यगत्या1821ऽनुमानतोक्ता । न तु वस्तुतो वचनानामर्थेषु नान्तरीयकत्वा
भावात् । (२१६)

किम्वा1822 (।)

हेयोपादेयतत्त्वस्य सोपायस्य प्रसिद्धितः ।
प्रधानार्थाविसम्वादादनुमानम्परत्र वा ॥ २१७ ॥

हेयस्य दुःखसत्यस्य उपादेयस्य निरोधसत्यस्य1823 सोपायस्य यथाक्रमं समुदय
सत्यस्य समार्गसत्यस्य चागमोक्तवस्तुबलप्रवृत्तेनानुमाने प्रसिद्धितो निश्चयात् ।
सत्यचतुष्टयाधिगमस्य निर्व्वाणहेतुत्वेन प्रधानार्थस्याविसम्वादात् । परत्रात्यन्त
परोक्षेप्यर्थे भग
वद्वचनादुत्पन्नं ज्ञानमनुमानं युक्तमिति वा पक्षान्तरं । (२१७)

पुरुषातिशयापेक्षं यथार्थमपरे विदुः ।
इष्टोयमर्थः प्रत्येतुं शक्यः सोतिशयो यदि ॥ २१८ ॥

अपरे नै या यि का दयः पुरुषस्यातिशयापेक्षं यथाभूतार्थदर्शि तदाख्यात् पुरुष
प्रणीतं वचनं यथार्थं सत्यार्थं प्रतिजानीयुः (।)

सिद्धान्तमाह (।) पुरुषातिशयप्रणीतं वचनम प्रमाणमितीष्टोऽयमर्थो यदि पुरुषाणां सोतिशयो ज्ञातुं शक्यः स्यात् ।

(१) पौरुषेयत्वे

क. पुरुषातिशयप्रणीतं वचनं प्रमाणम्

किन्तु (।)

अयमेवं न वेत्यन्यदोषानिर्दोषतापि वा ।
दुर्लभत्वात् प्रमाणानां दुर्बोधेत्यपरे विदुः ॥ २१९ ॥

अयं पुमानेवंदोषवान् न वा निर्दोष इत्यन्यस्य
दोषा निर्दोषतापि वा प्रमा
णानां1824 दुर्लभत्वाद् दुर्बोधे1825त्यपरे
सौ ग ता विदुः । दुर्ब्बोधेत्यन्यदोषा इत्यनेन72b
लिङ्ग1826 वचनविपरिणामेन सम्बन्धनीयं ।

  1. न तु प्रमाणगम्य एवार्थे विसंवादकात् ।

  2. अतोन्यथापरोक्षे प्रवृत्त्यसंभवात् ।

  3. अथवा ।

  4. तत्त्वमविपरीतं रूपं ।

  5. अन्यगुणदोषनिश्चायकानां ।

  6. चैतसानामतीन्द्रियत्वात् नापि रागाद्यनुमेयाः कायवचसां प्रतिसंख्ययान्यथात्वस्य शक्यत्वात् ।

  7. पुल्लिङ्गबहुवचनं कृत्वा ।