स्यादेतद् (।)

प्रवृत्तिर्वाचकानाञ्च वाच्यदृष्टिकृतेति चेत् ।
परस्परविरुद्धार्था कथमेकत्र सा भवेत् ॥ ३३७ ॥

वाचकानां शब्दानां प्रवृत्तिर्व्वाच्यदृष्टिकृता अभिधेयदर्शनागता ततः परंपरया2123
412 तत्कार्यतैवैषामिति चेत् । एवं तर्हि सा शब्दप्रवृत्तिरेकत्र वस्तुनि परस्परविरुद्धार्था
कथम्भवेत्
 ।
(३३७)

  1. पदानां सङ्गतिः सम्बन्धः । शक्यसाधन उपायोनुगुणः । अभ्युदयादिः पुरुषार्थ इति शास्त्रधर्मा प्रदर्श्य विरोधमसमाधाय चात्यन्तप्रसिद्धसत्यार्थतामात्रेण प्रज्ञाप्रकर्षेणापि दुरवगाहेपि सत्यार्थतां साधयन् दुश्चारिणीं जयेत् । सा स्वामिना परेण सङ्गता त्वमित्युपालब्धाऽह । पश्यत पुंसो वैपरीत्यं धर्मपत्न्या प्रत्ययमकृत्वा स्वनेत्रबुद्बुदयोः प्रत्येति । जरत्काणग्राम्यकाष्टहारेण प्रार्थिताऽसङ्गता । रूपगुणानुरागेण किल मन्त्रिमुख्यदारकं कामयेहमिति तुल्यं दृष्टविरोधस्यातिपरोक्षेऽविसम्वादानुमानेन (स्ववृत्तौ) ।