412 तत्कार्यतैवैषामिति चेत् । एवं तर्हि सा शब्दप्रवृत्तिरेकत्र वस्तुनि परस्परविरुद्धार्था
कथम्भवेत्
 ।
(३३७)

यदि यथा2124 वस्त्वेव शब्दस्तदा वस्तुत एकरूपेण2125 शब्दे नित्यः किमयमनित्यो
वेत्यादि शब्दसन्दर्भो न भवेत् ।

वस्तुभिर्नागमास्तेन कथञ्चिन्नान्तरीयकाः ।
प्रतिपत्तुर्न सिध्यन्ति कुतस्तेभ्योऽर्थनिश्चयः ॥ ३३८ ॥

तेन2126 प्रतिबन्धाभावेन वस्तुभिः सह नान्तरीयका आगमा प्रतिपत्तुरर्थं शब्दात्
प्रतिपद्यमानस्य कथञ्चिन्न सिध्यन्ति । तत् कुतस्तेभ्य आगमार्थनिश्चयः । (३३८)

तस्मान्न तन्निवृत्त्यापि भावाभावः प्रसिध्यति ।
तेनासन्निश्चयफलाऽनुपलब्धिर्न सिध्यति ॥ ३३९ ॥

यस्मात् प्रवर्त्तमानादागमान्नास्त्यर्थसिद्धिस्त्स्मात् तस्यागमस्य निवृत्त्यापि
भावस्याभावो न सिध्यति । तेन
प्रमा
णत्रयनिवृत्तिलक्षणाप्यनुपलब्धिरर्थाना
मसन्निश्चयफला न सिध्यति । ततो युक्तमुक्तं सदसन्निश्चय2127फला नेति स्याद् वा
ऽप्रमाणतेति
 । सद्व्यवहारसाधने चाधिकृते व्यवस्थितेत्यवस्थितं ॥ (३३९)

आचार्य म नो र थ न न्दि कृतायां वार्तिकवृत्तौ तृतीयः परिच्छेदः ॥

चतुर्थः परिच्छेदः2128

परार्थानुमानं

  1. वाच्यार्थस्य गमको हि तज्जन्यस्तत्स्वभावो वा स्यादित्याह शब्दस्त्विच्छायत्तो न बहिरधीनः (।) सति वाच्ये तद्दर्शनं दृष्टेर्विवक्षा । ततो वचनं परम्परा(?)

  2. आगम्यते तेन ।

  3. शब्दानां वस्त्वसम्बन्धेन ।

  4. सर्व्वविषयत्वादागमस्य सति वस्तुन्यविसम्वादेनावृत्तेस्तन्निवृत्तिलक्षणानुपलब्धिरभावसाधनमित्ययुक्तमेव परस्य । विनापि वस्त्वागमप्रवृत्तेः सर्व्वविषयत्वञ्च निरस्तमप्रस्तुतावचनात् ।

  5. चतुर्थो व्याख्यायते । तत्र सम्बन्धमन्तरेण वाक्यार्थावृत्तेरिति तृतीयपरिच्छेदं व्याख्यायानेनोत्तरसम्बन्धं कथयन् प्रतिपर्तृसुखार्थमन्त्यपरिच्छेदे सर्वमेव शास्त्रशरीरमनुक्रमेण वृत्तिकृत् कथयति अनुमानमित्यादि ।