तानेव1832 प्रति गिरां सत्यत्वस्य हेतूनां1833 दयाधर्मपरत्वादीनां गुणानां पुरुषस्या
श्रयादपौरुषेयं वाक्यं सत्यता1834हेतोः पुरुषगुणस्याभावात् मिथ्यार्थं किं न भवतीत्यन्ये
सौ ग ताः प्रचक्षते ॥ (२२५)
किञ्च (।)
सङ्केतमन्तरेणापौरुषे1835यादपि वाक्यादर्थप्रतीतेरभावात् । अर्थज्ञापनहेतुरिह
सङ्केतः स्वीकर्तव्यः । स च पुरुषकृतत्वात् पुरुषाश्रयः । अतः संकेतस्य
73a पुरुषा
श्रयत्वात् गिरामपौरुषेयत्वेपि मिथ्यात्वस्य सम्भवः । संकेतवशेन वाचोऽर्थं ब्रुवते ।
स च दोषाश्रयेण पुरुषेण क्रियत इति तासां न विसंवादशङ्कानिरासः । पौरुषेय
वाक्यवदिति व्यर्थमपौरुषेयत्वकल्पनं । (२२६)
क. अपौरुषेयत्वेप्यप्रामाण्यम्
अथ शब्दार्थ1836योः सम्बन्धो न पौरुषेयः किन्तु स्वाभाविकः ततो न मिथ्यात्व
सम्भवः । तदा (।)
सम्बन्धापौरुषेयत्वेपीष्यमाणे1 स्यादर्थानां प्रतीतिरसंविदोऽविद्यमानसङ्केत
प्रतीतेः पुंसः । न चेच्छब्दार्थयोः सांकेतिको वाच्यवाचकतासम्बन्धः किन्तु स्वाभा
विकः । तदाऽगृहीतश (?स) ङ्केतोपि श्रुताच्छब्दादर्थं प्रतिपद्येतेति ।
-
मी मां स कानेव शास्त्रकारः परमुखेनाह ।
↩ -
दयादीनां ।
↩ -
पुरुषनिवृत्त्या सत्त्वकारणनिवृत्तेः कार्यस्यापि सत्त्वस्य निवृत्तितः शब्दे
↩
सत्यत्वमिथ्यात्वयोः पुरुषायत्तत्वात् पुरुषनिवृत्तौ सत्त्यवन्मिथ्यात्वं च स्यात् । -
वस्तुतः पुंनिवृत्त्या सत्त्यमिथ्यार्थत्वनिवृत्तेरानर्थक्यादनुत्पत्तिलक्षणमानर्थं
↩
क्यं सङ्केतकाभावात् स्वभावतोर्थबोधानुपपत्तिः । -
शब्दार्थानादितेव सम्बन्धोनादिः (।) स च त्रिप्रमाणकः श्रोतुर्ब्बाधायै
↩
केन शब्दे प्रयुक्ते पार्श्वस्थः प्रयोक्तारं वाच्यं वाचकञ्च बुध्यतेऽध्यक्षेण । श्रोतुश्च
प्रतिपन्नत्वं प्रवृत्तिलिङ्गानुमानेन । अर्थप्रतिपत्त्यन्यथानुपपत्त्या च शब्दार्थाश्रितां
वाच्यवाचकशक्तिमवगच्छत्यर्थापत्त्येति त्रीणि प्रमाणानि सम्बन्धस्य बोधे ।