स्यादेतत् । प्रत्यक्षस्याचैतन्यादिविषयस्य योगाद्यभ्यासेन सह साध्यसाधन
सम्बन्धो विप्रकृष्टात्वात् सामान्याकारेणापि न प्रतीयते ततोस्यानुपदर्शनमित्याह ।

विच्छिन्नानुगमा येपि सामान्येनाप्यगोचराः ।
साध्यसाधनचिन्तास्ति न तेष्वर्थेषु काचन ॥ ८ ॥

येपि विच्छिन्नो विप्रकृष्टोऽनुगमः सम्बन्धो येषां ते प्रत्यक्षतदुपायादयः
सामान्येनाविशेषाकारेणाप्यगोचरास्तेष्वर्थेष्विदं साधनमिदं साध्यमिति

साध्यसाधनचिन्ता काचन नास्ति । ततोऽर्व्वाग्दर्शनस्याबुद्धिविषयीकृतयो रूपयो
रुपयोपेययोरेकत्रानुष्ठानावपरत्र निष्पादनमिति कुतः ॥ (८)