किञ्च (।) अप्रमाणकादागमादिच्छामात्रेण प्रतिपाद्यो हेतुं कुर्व्वन् पुन
रिच्छया तमेव परिहरन् हेतुतदाभासयोरिच्छाधीनतां स्वीकुर्यादित्याख्यातुमाह ।

पुंसामभिप्रायवशात् तत्त्वातत्त्वव्यवस्थितौ ।
लुप्तौ हेतुतदाभासौ तस्य वस्त्वसमाश्रयात् ॥ ९ ॥
82b

पुंसामभिप्रायवशादिच्छानुरोधात् तत्त्वा
तत्त्व
योर्हेतुतदाभासत्वयोर्व्यवस्थि
ता
विष्यमाणायां हेतुतदाभासौ लुप्तौ स्यातां अव्यवस्थितत्वात् तस्य पुरुषाभिप्रा
417 यस्य वस्त्वसंश्रयाद् यथावस्तुप्रवृत्तिनियमाभावात् ॥ (९)