अपि च (।)

सन्नर्थो ज्ञानसापेक्षो नासन् ज्ञानेन साधकः ।
सतोपि वस्त्वसंश्लिष्टाऽसंगत्या सदृशी गतिः ॥ १० ॥

सन्नर्थो ज्ञानसापेक्षः साध्यसाधकः प्रतीतो यथा धूमादिः । नासन्नर्थो ज्ञानेन प्रतीतिमात्रेण साधकः साध्यस्य यथा कल्पितो धूमः । अथाचैतन्यम्वस्तुतोस्त्येव
तद् यथा कथञ्चित् परस्मै
प्रतिपादनीयं । अतः पराभ्युपगतो हेतुः क्रियत इत्याह ।
सतोप्यचैतन्यस्य वस्त्वसंश्लिष्टा वस्तुभूतलिङ्गाप्रतिबद्धा गतिरसङ्गत्याऽसतः
प्रतीत्या सदृशी सम्यक् प्रतीतत्वाभावत् । अन्येत्वसद्गत्या दोषवत्प्रतीत्या
सदृशीति व्याचक्षते (।) तेषां सतोप्यवस्तुकृता प्रतिपत्तिरसत्प्रतिपत्तिं नाति
शेते । अप्रत्ययत्वादिति विनिश्चयग्रन्थेन सह एकवाक्यता न स्यात् ॥ (१०)