किञ्च (।)

लिङ्गं स्वभावः कार्यं वा दृश्यादर्शनमेव वा ।
सम्बद्धं वस्तुतस्सिद्धं तदसिद्धं किमात्मनः ॥ ११ ॥

लिङ्गं साध्यार्थ
म्बद्धं
नान्यत् व्यभिचारात् । तच्च स्वभावः कार्यं
दृश्यादर्शन
मनुपलब्धिरेवान्यस्य प्रतिबन्धाभावादित्युक्तं । तदुत्पत्त्यादिकं यदि
त्रिषु हेतुष्वन्तर्भूतं तदा वस्तुतः परमार्थतः सिद्धं प्रतिपाद्यस्य किं कस्मादात्मनः सां ख्य स्य वादिनो2141 ऽसिद्धं । उत्पत्तिमत्वादिस्वभावहेतुः स्यात् । स च धर्मि
ग्राहकात् प्रमाणादन्यतो वा शिंशपा2142त्ववत् कृतकत्वादिवदर्थान् प्रतिवादिन
इव वादिनोपि सि३ध्येत् । (११)

  1. उभयसिद्धमस्तु ।

  2. वृक्षं ग्राहयति ।