अथ2143 त्रिविधे हेतौ नान्तर्भवति उत्पत्त्यादि तदा (।)

परेणाप्यन्यतो गन्तुमयुक्तं;

परेण प्रतिवादिनापि त्रिविधाद्धेतोरन्यतो हेतोरचैतन्यं गन्तुं प्रत्येतुमयुक्तं (।)
यदि पराभ्युपगमसिद्धमसाधनं तदा प्रसङ्गहेतुरहेतुः स्यादित्याह ।

परकल्पितैः
प्रसङ्गो द्वयसम्बन्धादेकापायेन्यहानये ॥ १२ ॥
418

परकल्पितैः साधनैः प्रसङ्गः क्रियते यथा सामान्यस्य परोपगतानेकवृत्तित्वाद्
अनेकत्वमापाद्यते न त्वयं पारमार्थिको हेतुस्त्रैरूप्याभावात् । यद्ययं न हेतुः
तदा
किमर्थमुच्यत इत्याह । द्वयोः साध्यसाधनयोः सम्बन्धाद् व्याप्यव्यापकभावात्
स्फारितादेकस्य साध्यस्यापायेऽन्यस्य साधनस्य हानये । यथा चानेकं2144सामान्यं
तस्मान्नानेकवृत्तीति विपर्ययप्रयोगे साध्याभावे साधनाभावः कथ्यते । प्रसङ्ग
विपर्ययोत्र मौलो हेतुः साध्यसाधन्यव्याप्तिग्राहकप्रमाणस्मारकस्तु प्रसङ्गे प्रयोग
इत्यर्थः । भिन्नदेश
कालादिष्वनेकासु व्यक्तिषु वृत्तस्य तदतद्देशत्वादिविरुद्धधर्मा
ध्यासादनेकत्वसिद्धेरनेकवृत्तत्वानेकत्वयोर्व्याप्तिसिद्धिर्बोद्धव्या । (१)

  1. पराभ्युपगतेन दूषयित्वा प्रमाऽनन्तर्भावमाह ।

  2. पक्षधर्मोपसंहार एषः ।