उक्तं स्वदृष्टग्रहणस्य साफल्यं 2145 ॥

(२) अर्थग्रहणफलम्

अर्थग्रहणस्येदानीं वक्तव्यं । अदृष्टार्थप्रकाशनमित्यत्र सूत्रे यदुपात्तं (।)

तदर्थग्रहणं शब्दकल्पनारोपितात्मनाम् ।
अलिङ्गत्वप्रसिद्ध्यर्थमर्थादर्थस्य सिद्धितः ॥ १३ ॥

तदर्थग्रहणं शब्देन 2146 कल्पनया चारोपित आत्मा येषां पक्षसपक्षान्यतरत्वा
दीनां तेषामलिङ्गत्वप्रसिद्ध्यर्थं बोद्धव्यं । कस्मात् पुनः कल्पितस्या
लिङ्गत्व
मित्याह । अर्थाद् वस्तुभूताल्लिङ्गादर्थस्य साध्यस्य सिद्धितः ॥ (१)

  1. उभयसिद्धो हेतुः सूचितः प्रमोपपत्तिः ।

  2. यथा सर्व्वगत आत्मा सर्व्वत्रोपलभ्यमानगुणत्वादाकाशवत् ॥ नित्योऽनित्यो वा शब्दः पक्षसपक्षान्यतरत्वात्परमाणुवद् घटवद्वा ।