414 सिद्धः । तावतैव हेतुरिति मन्यन्ते । तस्य परमतस्य क्षेपाय प्रतिषेधायात्म
दृश्र/?/वचः
अदृष्टवचनं सूत्रे । न प्रतिवादिमात्रसिद्धस्य हेतुत्वं किन्तूभयसिद्धस्यैव
त्यर्थः ॥ (१)

ख. अनुमानविषये नागमस्य प्रामाण्यम्

न चागमात् प्रतिवादिनोपि साधनसिद्धिर्युक्तेति वक्तुमाह ।

अनुमाविषये नेष्टं परीक्षितपरिग्रहात् ।
वाचः प्रामाण्यमस्मिन् हि नानुमानं प्रवर्तते ॥ २ ॥

अनुमानस्य वस्तुबलप्रवृत्तस्य विषये यस्मादनुमानज्ञानमुत्पद्यते (।) स च
त्रिरूपो हेतुः (।) तत्र प्रतिपाद्ये वाच आगमात्मिकायाः प्रामाण्यं नेष्टमर्थप्रति
बन्धाभावादित्युक्तं ।

किञ्च (।) प्रमाणान्तरसम्वादा
त् परीक्षितस्य प्रमाणोपपन्नस्यागमा
र्थस्य परिग्रहात् स्वीकारान्नेष्टं वचनप्रामाण्यं । यदि वचनमित्येव प्रमाणन्तदा
प्रतिज्ञापदादेव साध्यस्य सिद्धेर्निष्फलं हेतुदृष्टन्तादिवचनं स्यात् । प्रमाणान्तर
सम्वादापेक्षा च न भवेत् । सम्वादज्ञानस्यैवार्थभावानुविधायित्वात् तस्मि
न्नागमार्थे प्रामाण्यं । वचनस्य तु विपर्ययात् । यदि त्वागम इत्ये
व प्रमाणं
(।) तदा प्रमाणान्तरसम्वादापेक्षा न स्यात् । हि यस्मात् । अस्मिन्नागमार्थे
प्रमाणप्रतिपादितत्वान्निश्चितेऽनुमानं न प्रवृर्त्तते (।) यदि ह्यागमार्थः सन्दिह्येत
तदा तन्निश्चयार्था प्रमाणान्तरवृत्तिरपेक्ष्येत ॥ (२)

बाधनायागमस्योक्तेः साधनस्य परं प्रति ।
सोप्रमाणं तदाऽसिद्धं तत्सिद्धमखिलन्ततः ॥ ३ ॥

यदि चागमस्य सुखादिचैतन्यप्रतिपादकस्य बाधनाय साधनस्योत्पत्ति
मत्वादेः सां ख्ये न परं बौद्धं प्रत्युक्तिः ततः कारणात् आगमोऽ
प्रमाणं । तदा ।
न हि प्रमाणस्य बाधो युक्तः । तत आगमाप्रामाण्यात् तेनागमेन साक्षात्
पारंपर्याभ्यां सिद्धमुत्पत्तिमत्वादि साध्यं चाचैतन्यमखिलमिदमसिद्धं ॥ (३)

ग. प्रमाणेन बाध्यमानस्यागमस्य न सिद्धिः

तदागमवतः सिद्धं यदि कस्य क आगमः ।
बाध्यमानः प्रमाणेन स सिद्धः कथमागमः ॥ ४ ॥

स च सुखाद्युत्पत्तिमत्वप्रतिपादक आगमः (च) तदागमः तद्वतस्तत्सम्बन्धिनो
बौद्धस्य सिद्धमुत्पत्तिमत्त्वादिलिङ्गमिति चेत् । कस्य पुरुषस्य क आगमः सम्बन्धी । न