418

परकल्पितैः साधनैः प्रसङ्गः क्रियते यथा सामान्यस्य परोपगतानेकवृत्तित्वाद्
अनेकत्वमापाद्यते न त्वयं पारमार्थिको हेतुस्त्रैरूप्याभावात् । यद्ययं न हेतुः
तदा
किमर्थमुच्यत इत्याह । द्वयोः साध्यसाधनयोः सम्बन्धाद् व्याप्यव्यापकभावात्
स्फारितादेकस्य साध्यस्यापायेऽन्यस्य साधनस्य हानये । यथा चानेकं2144सामान्यं
तस्मान्नानेकवृत्तीति विपर्ययप्रयोगे साध्याभावे साधनाभावः कथ्यते । प्रसङ्ग
विपर्ययोत्र मौलो हेतुः साध्यसाधन्यव्याप्तिग्राहकप्रमाणस्मारकस्तु प्रसङ्गे प्रयोग
इत्यर्थः । भिन्नदेश
कालादिष्वनेकासु व्यक्तिषु वृत्तस्य तदतद्देशत्वादिविरुद्धधर्मा
ध्यासादनेकत्वसिद्धेरनेकवृत्तत्वानेकत्वयोर्व्याप्तिसिद्धिर्बोद्धव्या । (१)

उक्तं स्वदृष्टग्रहणस्य साफल्यं 2145 ॥

(२) अर्थग्रहणफलम्

अर्थग्रहणस्येदानीं वक्तव्यं । अदृष्टार्थप्रकाशनमित्यत्र सूत्रे यदुपात्तं (।)

तदर्थग्रहणं शब्दकल्पनारोपितात्मनाम् ।
अलिङ्गत्वप्रसिद्ध्यर्थमर्थादर्थस्य सिद्धितः ॥ १३ ॥

तदर्थग्रहणं शब्देन 2146 कल्पनया चारोपित आत्मा येषां पक्षसपक्षान्यतरत्वा
दीनां तेषामलिङ्गत्वप्रसिद्ध्यर्थं बोद्धव्यं । कस्मात् पुनः कल्पितस्या
लिङ्गत्व
मित्याह । अर्थाद् वस्तुभूताल्लिङ्गादर्थस्य साध्यस्य सिद्धितः ॥ (१)

कल्पनागमयोः कर्त्तुरिच्छामात्रानुवृत्तितः ।
वस्तुनश्चान्यथाभावात् तत्कृता व्यभिचारिणः ॥ १४ ॥

कल्पनाया आगमस्य शब्दस्य च कर्त्तुः पुरुषस्येच्छामात्रस्यानुवृत्तितोनुरोधा
त् । वस्तुनश्चान्यथाभावात् । कर्त्तुरिच्छानुवृत्तेस्ताभ्यां शब्दकल्पनाभ्यां कृता हेतवो व्यभिचारिणो नैकान्तिकाः । (१४)

उक्तमर्थग्रहणप्रयोजनं ॥

स्वदृष्टार्थप्रकाशनशब्देन त्रिरूपलिङ्गवचनमिष्टं । न पक्षवचनमपीति वक्तव्यं ॥

२. पक्षचिन्ता

  1. पक्षधर्मोपसंहार एषः ।

  2. उभयसिद्धो हेतुः सूचितः प्रमोपपत्तिः ।

  3. यथा सर्व्वगत आत्मा सर्व्वत्रोपलभ्यमानगुणत्वादाकाशवत् ॥ नित्योऽनित्यो वा शब्दः पक्षसपक्षान्यतरत्वात्परमाणुवद् घटवद्वा ।