419

(२) पक्षहेतुवचनमसाधनम्

क. हेतुवचनं न साधनम्

यदि सा
क्षात् पारम्पर्येण वा पक्षवचनं साध्यप्रत्तिपत्तावुपयुज्यते । तदो-83a
च्येत किन्त्वेतन्नास्तीत्याह ।

अर्थादर्थगतेः शक्तिः पक्षहेत्वभिधानयोः ।
नार्थे तेन तयोर्न्नास्ति स्वतः साधनसंस्थिति ॥ १५ ॥

2147 साक्षात् तावत पक्षाभिधानस्य हेत्वभिधानस्य च प्रतिपाद्येऽर्थे शक्तिर्न विद्यते (।) किं कारणमित्याह ।

अर्थाद् वचनप्रतिपाद्यादर्थ साध्यस्य गतेर्न वचनात् । तेन साक्षादर्थप्रतिपाद
कत्वाभावेन तयोः पक्षहेत्वभिधानयोः स्वतः स्वरूपेण साधनसंस्थितिः । साधनत्व
व्यवस्था नास्ति 2148यत
श्च पक्षवचनं साक्षादर्थे न प्रमाणं ॥ (१५)

ख. पक्षवचनमसाधनम्

तत् पक्षवचनं वक्तुरभिप्रायनिवेदने ।
प्रमाणं संशयोत्पत्तेस्ततः साक्षान्न साधनम् ॥ १६ ॥

तत्तस्मात् पक्षवचनं वक्तुरभिप्रायनिवेदने प्रमाणं शब्दप्रामाण्यमा चा र्य स्य
वदतोऽभिमतमिति बोद्धव्यं । तत्पक्षवचनात् साध्येर्थ संशयोत्पत्तेरनिश्चयान्न साक्षात् साधनमर्थस्य तत् ॥ (१६)

परंपरया साध्यसाधनात् प्रमाणं पक्षवचनं वक्तुरभिप्रायनिवेदने प्रमाणन्तर्हि
स्यादित्याह ।

साध्यस्यैवाभिधानेन पारंपर्येण नाप्यलम् ।
शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् ॥ १७ ॥
  1. पञ्चावयवत्वात् परे पक्षहेतुवचनयोः साधनत्वमाहुः । तन्निषेधायाह । साधनं भवत् साक्षात् पारंपर्येण वा स्यात् तत्र प्रतिज्ञाहेतुदृष्टान्तउपनयनिगमनाख्यं ।

  2. ननु आचार्येण शाब्दं प्रमाणमिष्टं कथन्ततो नार्थ इत्याह ।