457

नैमित्तिक्या2263 वस्तुभूतगुणादिनिमित्तवत्याः श्रुतेरर्थं गुणादिकं पारमार्थि
कमर्थं
2264 गुणिगुणादिसम्बन्धं शब्दानां गुण्यादिवाचिनां प्रतिरुन्धानोऽबाधनार्हो
बाधां नार्हती
त्युक्तो 2265भवति ॥ (१२८)

यस्माच्च सांकेतिकार्थनिराकरणे प्रतीतिबाधा (।)

तस्माद् विषयभेदस्य दर्शनाय पृथक्कृता ।
अनुमानाबहिर्भूता प्रतीतिरपि पूर्व्ववत् ॥ १२९ ॥

तस्मात् स्वभावलिङ्गजत्वेनानुमानादबहिर्भूता प्रतीतिरपि तस्मात्2266 पृथक्
कृता
(।) किमर्थमित्याह । विषयस्य भेदः कल्पिताकल्पितत्वं तस्य दर्शनाय ।
कल्पितार्थविषया प्रतीतिः । वस्तुविषयन्त्वनुमानमित्यर्थः । पूर्व्ववदिति ।
यथा आगमस्ववचनेऽभ्युपगतप्रामाण्येऽप्रत्यक्षत्वादनुमानान्तर्गते
पि विषयभेददर्शनाय
पृथग्दर्शिते वस्तुबलप्रवृत्तेनुमानं सर्व्वविषयविचारे त्वागमस्ववचने अधिकृते ।
तथा प्रतीत्यनुमाने अपि भिन्नविषये इत्यर्थः । (१२९)

अनुमानबाधायामन्तर्भावादनयोरभ्यु2267पगमप्रतीतिबाधयोः (।)

सिद्धयोः पृथगाख्याने दर्शयंश्च प्रयोजनम् ।
एते सहेतुके प्राह नानुमाध्यक्षबाधने ॥ १३० ॥

सिद्धयो2268रपि पृथगाख्याने विषयभेदलक्षणं प्रयोजनन्दर्शयन्ना चा र्य एते अभ्यु
पगमप्रतीतिबाधे सहेतुके प्राह2269 । न सन्ति 2270 प्रमाणानि प्रमेयार्थानीति2271
प्रतिज्ञामात्रे2272णेति (।) अत्र प्रतिज्ञा
मात्रं शास्त्रस्ववचनयोः सिद्धयोरप्रामाण्यप्रति
ज्ञाबाधकमुक्तम् (।) अतोप्य2273साधारणत्वादनुमानाभावे शाब्दप्रसिद्धेनापोद्यते न
सपक्ष इति । अत्र शाब्दप्रसिद्धेन शशिनश्चन्द्रत्वेनाचन्द्रत्वप्रतिज्ञाया बाधनमुक्तं ।
अनुमाध्यक्षबाधने तु न सहेतुके प्राह ।2274अश्रावणः शब्दो नित्यो घट इति तस्माद्
विषयभेदोपलक्षणार्थ सहेतुत्वाहेतुत्वदर्शनं । प्रत्यक्षानुमा
न बाधे सर्व्वाविषये ।92b अभ्युपगमप्रतीतिबाधे तु नियतविषये इत्यर्थः ॥ (१३०)

उक्ता प्रतीतिबाधा ॥

  1. निमित्ताभावे ।

  2. न चन्द्रत्वं परमार्थतोस्तीति ।

  3. अबाधनार्हः ।

  4. अनुमानात् ।

  5. स्ववचनाप्तवचनयोर्ग्रहोनेन ।

  6. अनुमानापृथ(?)क्त्वेन निश्चितयोः ।

  7. नागः ।

  8. समुच्चयमाह प्राक् प्रामाण्यमाज्ञाय विरोधमनेन ।

  9. हेतुनानेन सहेतुकमाह ।

  10. शास्त्रस्ववचनप्रामाण्याख्येन ।

  11. दृष्टान्ताभावात् ।

  12. उद्योतकरादिनोक्तः । सम्बन्धो नाध्यक्ष इत्युक्त्वा ।