462
द्वयस्यापि हि साध्यत्वे साध्यधर्मोपरोधि यत् ।
बाधनं धर्मिणस्तत्र बाधेत्येतेन वर्ण्णितम् ॥ १४३ ॥

द्वयस्य धर्मिधर्मसमुदायस्यापि हि साध्यत्वे सति यत्र धर्मिणो बाधनं साध्य
धर्मोपरोधि
तत्र पक्षबाधा युक्तेत्येतेन स्वध
र्मिग्रहणेन वर्ण्णितं । न हि साध्य
धर्ममात्रसाधनार्थं कश्चित् साधनमन्वेषते । तस्य जगति क्वचित् सत्तायां विवा
दाभावात् । तथा निश्चये प्रवृत्त्ययोगाच्च । किन्तु धर्मिविशेषनिष्ठं साध्य
मिष्टं ॥ (१४३)

तथैव धर्मिणोप्यत्र साध्यत्वात् केवलस्य न ।
यद्येवमत्र बाधा स्यात्;

तत्र यथा धर्मिविशिष्टस्य साध्यत्वं धर्मस्य तथैव साध्यत्वविशिष्टत्वेन धर्मि
णोपि साध्यत्वात् केवलस्य
धर्मस्य न क्वचित् साध्यता । ततो न केवलस्य धर्मिणो
बाधने पक्षबाधा ॥ यदि साध्य
धर्मोपरोधिनि धर्मिणि बाधिते पक्षबाधेष्यते
(।) एवं सत्यत्र हेतौ सां ख्यं प्रति बौद्धेनोक्ते धर्मिबाधाद्वारेण धर्मबाधा स्यात् ।

नान्यानुत्पाद्यशक्तिकः ॥ १४४ ॥
सकृच्छब्दाद्यहेतुत्वात् सुखादिरिति पूर्व्ववत् ।
विरोधिता भवेदत्र हेतुरैकान्तिको यदि ॥ १४५ ॥

तद्यथा सुखादिः सुखदुःखमोहात्मकं प्रधानं नान्येन सहाकारिणाऽनुत्पाद्य
शक्तिकोऽ
नाधेयसामर्थ्यः सकृच्छब्दादीनां कार्याणामहेहेतुत्वादिति । अत्र पूर्व्ववत् परैरनुत्पाद्येत्यादिप्रयोगत्वाच्च । सुखाद्यात्मकस्य नित्यत्वस्य बाधनात् सुखादौ

र्म्मिणि बाधिते तद्धर्म्मस्य नित्यत्वस्य विरोधने विपर्ययसाधने बाधा स्यात् ।2293
अनित्यस्वभावो हि सुखादिः साधयितुमिष्टः । सुखादिस्वभावभूतनित्यत्व
बाधने च सुखादिरेव बाधित इति धर्मोपरोधिनि धर्मिणि बाधिते पक्षबाधा
स्यात् । अत्राह । भवेदत्र हेतौ पक्षबाधा । यदि न सकृच्छब्दाद्य2294नुत्पादादिति93b
हेतुः साध्यस्य । वस्तुभूतसुखाद्यनित्यत्वस्य । विपर्यये सुखादिधर्म्यभावादनि-

त्यत्वाभावेनैकान्तिकोऽव्यभिचारी भवेत् । (१४४,१४५)

यावता या च (।)

  1. सामर्थ्यादन्याभावात् ।

  2. अादिना स्पर्शरूपरसगन्धग्रहः ।