463
क्रमक्रियाऽनित्यतयोरविरोधाद् विपक्षत्तः ।
व्यावृत्तेः संशयान्नायं शेषवद् भेद इष्यते ॥ १४६ ॥

क्रमक्रिया हेतुः । या च साध्यऽनित्यता तयोरविरोधात् । अवस्तुभूत (धर्मि)
सुखादिधर्मानित्यत्वे विपरीते साध्ये वस्तुभूतसुखादिधर्मानित्यत्वं विपक्षस्ततो हेतोः क्रमकरणव्यावृत्तेः संशयान्नायं विरुद्धो 2295 हेतुः । शेषवद् भेदोऽनैकान्तिक
विशेषस्त्विष्यते । सति च विरुद्धत्वे धर्मिबाधाद्वारेण धर्मबाधा स्यात् । (१४६)

(३) धर्मिस्वरूपनिरासः

स्वयमिष्टो यतो धर्मः साध्यस्तस्मात् तदाश्रयः ।
बाध्यो न केवलो नान्यसंश्रयो वेति सूचितम् ॥ १४७ ॥

यतः कारणात् स्वयम्वादिनेष्टो
धर्मः साध्यस्तस्मात्
साध्यधर्मसाश्रयः यः स एव बाध्यः केवलो न बाध्यः । यथा वस्तुभूताकाशबाधायामपि नित्यैक
रूपत्वाभावस्य साध्यधर्मस्य न क्षतिः । साध्यधर्मादन्यस्य च धर्मस्याश्रयो न बाध्य
इति
स्वयंशब्देन सूचितं । यथाऽनित्यत्वे साध्ये शब्दे आकाशगुणत्वाश्रयत्वेन बाधायामपि न दोषः । (१४७)

तस्मात् (।)

स्वयंश्रुत्यान्यधर्माणां बाधाऽबाधेति कथ्यते ।
तथा स्वधर्मिणान्यस्य धर्मिणोपीति कथ्यते ॥ १४८ ॥

स्वयंश्रुत्या साध्याद् धर्मादन्येषां धर्माणां यथा बाधा या सा ऽबाधेति कथ्यते ।
तथा स्वधर्मिणा

स्वधर्मिवचनेन साध्यादन्यस्य धर्मस्य धर्मिणो बाधाऽबाधेति कथ्यते ॥ (१४८)

५---पक्षदोषाः

(१) हेतुनिरपेक्षः पक्षदोषः

तथाऽपरेपि पक्षाभासाः सन्ति ते कस्मान्नोच्यन्ते । तथा ह्यप्रसिद्धविशेष्यः
कश्चित् पक्षो यथा2296 विभुरात्मा । 2297 आत्मन एव बौद्ध स्यासिद्धत्वात् । कश्चिद्

  1. धर्मोपरोधाद् विरुद्धः सांख्यस्याचार्यविरुद्धत्वं नेह ।

  2. वैशेषिकस्य ।

  3. सिद्धान्ती सति धर्मिणि धर्माश्चिन्त्यन्ते ।