(५) सामान्यचिन्ता

क. सामान्यानुवर्त्तने निष्फलम्

विशेषेभिन्नमाख्याय सामान्यस्यानुवर्त्तने ।
न तद्व्याप्तिः फलं वा किं सामान्येनानुवर्त्तने ॥ १७६ ॥

विशेषेण शब्दे भिन्नं नित्यत्वमाख्याय सर्व्वस्यानित्यत्वादिति व्यापित्वात्
सामान्यस्यानित्यत्वस्यानुवर्त्तने क्रियमाणे तस्यानित्यत्वस्य व्याप्तिरशेषपदार्थग्रहो
न भवति । यथा कौण्डिन्यस्य तक्रदानं विहितं ब्राह्मणेभ्यः सामान्येन विहितदधि
दानेन न बाध्यते । प्रकल्प्याप
वादविषयमुत्सर्गस्य प्रवृत्तेः । तथा शब्दे नित्यत्वस्य
477 विशेषविहितस्य सर्व्वानित्यत्वेन सामान्यविहितेन बाधाशङ्का नास्तीति कथं प्रतिज्ञा
हेत्वोर्व्विरोधः । यदि शब्दव्यतिरिक्तस्य सर्व्वस्यानित्यत्वमिष्टं न स्यात् (।) तदा
सर्व्वस्यानित्यत्वादिति सामान्येनानुवर्त्तने किं फलं स्यात् । नित्यः शब्दः शब्दस्या
नित्यत्वादित्येव वाच्यं । एवं विरोधस्य वक्तव्यत्वात् शब्द एवोदाहरणम्भविष्य

तीति चेत् । नानुन्मत्त एवं ब्रूयात् । यद्यात्मनोऽनित्यत्वं हेतुः सिद्धः । कथं तद्विरुद्धं
साध्यं (।) तत्रैव प्रतिजानीयात् । अथासिद्धस्तदा हेतुदोष एवासौ न प्रतिज्ञा
दोषः (।) तस्मान्नास्ति शब्दे नित्यत्वं । अतः स्वविरोधिनमपि निराकर्त्तुमशक्तं ।

स्यान्निराकरणं शब्दे स्थितेनैवेत्यतोब्रवीत् ।

अत एवाचार्य शब्देस्थितेनैवानित्यत्वेन निराकरणं नित्यत्वस्य स्यादित्यब्रवीत् ।
तदा च स्यादत्र प्रतिज्ञार्थस्य निराकरणं ॥

यदि नित्यः
शब्दः सर्व्वस्यानित्यत्वादिति वैधर्म्यदृष्टान्तोपदर्शनमेतत् ।
यथा नित्यत्वविशिष्ट शब्द इति । तदा हेतु-निर्देशोन स्यादित्याह (।) अ2342सर्वश्च
शब्द इत्युपनयाद्धेतुर्वक्तव्यः ।

विरुद्धविषयेन्यस्मिन् वदन्नाहान्यतां श्रुतेः ॥ १७७ ॥

तथाहि नित्यत्वस्य वि
रुद्धं शब्दादन्यस्मिन् वदन् सर्व्वस्मादन्यतां श्रुतेः 95b
शब्द2343स्याह ।

स च भेदोप्रतिक्षेपात् सामान्यानान्न विद्यते ।

स च सर्व्वस्माद् भेदोऽसर्व्वलक्षणः शब्दस्य न विद्यते (।) सामान्यानां
व्यापिनां भेदस्याप्रतिक्षेपात् स्वीकारात् (।) निः शेषार्थसंगृहीतत्वात् सर्व्वशब्दो
न किञ्चित् परिहरति ।

ननु सामान्यानां विशेषप्रतिक्षेपो दृश्यते एव । यथा किं शिंशपैव वृ
क्षो
न वेति प्रश्ने कथ्यते न शिंशपैव वृक्षः । तदा शिंशपावृक्षत्वप्रतिक्षेपो भवत्येव ।

असदेतत् । न हि तत्र शिंशपावृक्षत्वं निषिध्यते किन्तु शिंशपैव वृक्ष इति
नियमः प्रतिक्षिप्यते (।) तदितरस्यापि वृक्षत्वात् ।

वृक्षो न शिंशपैवेति यथा प्रकरणे क्वचित् ॥ १७८ ॥
478
सर्वश्रुतेरेकवृत्तिनिषेधः स्यान्न चेयता ।
सोसर्वः सर्वभेदानामतत्त्वे तदसम्भवात् ॥ १७९ ॥

यथा च क्वचित् प्रकरणे शिंशपामात्रवृक्षत्वप्रश्नहेतौ यथा वृक्षो न शिंशपैवेति
शिंशपामात्रवृक्षत्वनिषेध इष्टः । तथा निःशेषवस्तुसंग्राहिकाया
ः सर्व्वश्रुतेरेकत्र
शब्दमात्रवृत्तिनिषेधः स्यात् (।) न चेयता स शब्दोऽसर्व्वः सर्व्वान्तर्गमात् तस्य ।
प्रत्येकं सर्व्वेषां भेदानां विशेषाणामतत्वेऽसर्व्वत्वे तस्य सर्व्वस्यासम्भवात् ।

अथ पारिभाषिकं सर्व्वत्वं शब्दादितरत्वं तथाऽसर्व्वत्वं शब्दे सिद्धमेवेति चेत् ।
तदयुक्तं2344 (।) एवं हि सर्व्वत्वमेव सर्व्वशब्देनोक्तं स्यात् । तथाऽप्रसिद्धतैव । तथा हि ।

ज्ञाप्यज्ञापकयोर्भेदात् धर्मिणो हेतुभाविनः ।
असिद्धेर्ज्ञापिकत्वस्य धर्म्यसिद्धः स्वसाधने ॥ १८० ॥

ज्ञाप्यज्ञापकयोर्भेदात् कारणा
त् साध्याभिन्नं साधनं वक्तव्यं । ततो
धर्मिणो हेतुत्वेन भाविनो हेतुर्भविष्यतो नित्यत्वेन साध्यत्वात् । ज्ञापकस्यासिद्धेः
कारणात् । धर्मी साध्यत्वात् स्वस्य साधनेऽसिद्धः । असिद्धं हि साध्यं । सिद्धञ्च
साधनं । अनयोः कथमैकात्म्यं ॥

ननु शब्दत्वं सिद्धमेव । नित्यवत्तया तु तदसिद्धं साध्यते । न च तथैव
तत्साधनं । शब्दत्वमात्रेण साधनत्वात् । तत्कथन्धर्मी स्वसाधनेऽसिद्ध उच्यते ॥
अयमभिप्रायः । न शब्दत्वमित्येव गमकत्वं किन्तु साध्यप्याप्तं तस्य चासाधारणत्वेन
नान्यत्र व्याप्त्युपलम्भः । ततश्चान्यत्रानित्यत्वनियमात् शब्दे शब्दत्वं नित्यताव्याप्तं
सद्धेतुर्व्वक्तव्यः । तथा च य एव साध्यः स एव हेतुरिति साध्यसिद्धेर्हेत्व
सिद्धिश्चेति युक्तमुक्तं धर्म्यसिद्धः प्रसाधन इति ॥

ख. सामान्यनिरासः

धर्मधर्मिविवेकस्य सर्वभावेष्वसिद्धितः ।
सर्वत्र दोषस्तुल्यश्चेन्न संवृत्या विशेषतः ॥ १८१ ॥

नन्वेवं सति सर्व्वत्र भावेषु धर्मयाः साध्यसाधनयोर्द्धर्मिणश्च विवेकस्य भेद
स्यासिद्धितः 2345
 ।

479

2346 सर्व्वत्र तुल्यो दोषः । नहि शब्दादन्यत् नित्यत्वं कृतकत्वम्वा । अनित्य-96a त्वासिद्धौ च यथा नित्यः साध्यस्तथा तदात्मवान् कृतकोपि शब्दोऽसिद्ध ऐवति चेत् ।
नैष दोषः (।) संवृत्त्या भिन्नव्यावृत्तिविषयया साध्यसाधनधर्मिणो विशेषतो भेदात् । यथा स्वं विकल्पैः संकेतवासनानुगमनियमितैकैकवृत्तिमात्रविषयार्थैः
शब्दत्वकृतकत्वनित्यत्वाद्यसंकीर्ण्णान्येव धर्मिसाधनसाध्यतया व्यवस्थाप्यन्त इति

न दोषः ।

यदि धर्मधर्मिविवेकोऽस्त्येव तदा तत्त्वान्यत्वप्रतिषेधः कथं कृत इत्याह ।

परमार्थविचारेषु तथाभूताप्रसिद्धितः ॥
तत्त्वान्यत्वं पदार्थेषु सांबृतेषु निषिध्यते ॥ १८२ ॥

सांवृतेषु कल्पनाविषयेषु धर्मिधर्मादिषु तत्त्वान्यत्वं परमार्थस्य तत्त्वस्य
विचारेषु निषिध्यते तथाभूतस्य यथाकल्पनं परस्परतो भिन्नस्य धर्मिधर्मादेः
प्रमाणेनाप्रसिद्धितः । न तु सांवृतोपि तेषां भेदाभावः । न चेयता कल्पिते धर्मिणि
कल्पितात् साधनात् कल्पितस्य साध्यस्य सिद्धिरित्यनुमा
नादवस्तुप्रतीत्यभाव
प्रसङ्ग । अशब्दव्यावृत्त्या निश्चितस्य वस्तुन एव धर्मित्वात् । एवं कृतकत्वा
नित्यत्वाभ्यां निश्चितस्य तस्यैव साधनत्वात् साध्यत्वाच्चेत्युक्तेः । अन्योन्यस्य
तेषां भेदः पुनः कल्पित एव ।

अनुमानानुमेयार्थव्यवहारस्थितिस्त्वियम् ।
भेदं प्रत्ययसंसिद्धमवलम्ब्य च कल्प्यते ॥ १८३ ॥

अतोनुमानहेतुत्वादनुमानस्य लिङ्गस्यानुमेयार्थस्यानयोरुपलक्षणत्वात् (।)

धर्मिणश्च व्यवहारस्थितिस्त्वियमनित्यः कृतकत्वादित्यादौ क्रियमाणा तेषां
परस्परतो भेद
प्रत्यतेन
विकल्पकेनैकव्यावृत्तिमात्रविषयेण संसिद्धं निश्चितं ।
अवलम्व्याश्रित्य च कल्प्यते ॥

यथा स्वं भेदनिष्ठेषु प्रत्ययेषु विवेकिनः ।
धर्मी धर्माश्च भासन्ते व्यवहारस्तदाश्रयः ॥ १८४ ॥

तथाहि यथा स्वं यस्य य आत्मीयो ग्राह्यो भेदो व्यावृत्तिस्तन्निष्ठेषु विकल्पेषु
विवेकिनो धर्मी धर्माश्च साध्यसाधनादयो भासन्ते । तदाश्रयो विकल्पगोचरा
श्रयो धर्मिधर्मादिभेदस्य व्यवहारः प्रवर्त्तते ॥

480

एवन्तर्हि नित्यः शब्दोऽसर्व्वत्वादिति । अत्रापि व्यावृत्तिभेदादे
व साध्य
साधनभावो भविष्यतीत्याह ।

व्यवहारोपनीतोत्र स एवाश्लिष्टभेदधीः ।
साध्यः साधनतां नीतस्तेनासिद्धः प्रकाशितः ॥ १८५ ॥

अत्र प्रयोगे शब्द एव साध्योऽश्लिष्टभेदधीरसंस्पृष्टान्यादृशबुद्धिः ।
द्वाभ्यामपि शब्दाभ्यामेकस्या व्यावृत्तेः प्रतिपादनात् व्यवहारेण व्यावृत्तिसमाश्र
येणोपनीतः प्रत्युपस्थापितः येन कारणेन साधनतां नीतः तेनासिद्धः प्रकाशितः ।

ननु संस्कृतशब्दोऽनित्यः संस्कृतत्वादिति प्रतिज्ञार्थैकदेशस्य यथा
हेतुत्वं तथा
नित्यः शब्दः शब्दत्वादित्यस्यापि स्यादित्याह ।

भेदसामान्ययोर्द्धर्मभेदादंगांगिता ततः ।
यथाऽनित्यः प्रयत्नोत्थः प्रयत्नोत्थतया ध्वनिः ॥ १८६ ॥

साध्यधर्मिमात्रनिष्ठत्वात् सर्व्वधर्मगोचरत्वाच्च भेदसामान्ययोर्द्धर्मभेदाद् व्यावृत्तिभेदात् । साध्य2347धर्मो हि साध्यधर्मिनिष्ठत्वेन सजातीयाद् विजाती
याच्च व्यावृत्तत्वाद् विशेषः । साधनधर्मस्तु विजातीयमात्रव्यावृत्तत्वेन सामान्यं ।
ततो भेदसामान्यभावेन भेदादङ्गाङ्गिता हेतुसाध्यता युक्ता । विशेषः सा
ध्यः
सामान्यं हेतुरिति कुतः प्रतिज्ञार्थैकदेशता । यथाऽनित्यः प्रयत्नोत्थो ध्वनिरिति प्रतिज्ञा प्रयत्नोत्थतयेति हेतुः । शब्दः पुनरभिन्न2348विषयो हेतुः साध्यश्चेति
प्रतिज्ञार्थैकदेशत्वं ॥

प्रयत्नानन्तरीयकत्वस्य धर्मिविशेषणत्वात् प्रतिज्ञार्थैकदेशत्वमस्त्येवेत्याह ।

पक्षाङ्गत्वेप्यबाधत्वान्नासिद्धिर्भिन्नधर्मिणि ।
यथाश्वो न विषाणित्वादेष पिंडो विषाणवान् ॥ १८७ ॥
97a

पक्षाङ्गत्वे विशेषणत्वेपि नास्त्येव तावत् साधनस्य पक्षाङ्गत्वं विशेषसाध्य
त्वात् । भवतु वा तथापि नासिद्धस्य । तेन विशेषणेन भिन्ने विशेषिते धर्मिणि धर्म्म्यन्तरव्या2349वृत्ते प्रयत्नानन्तरीयकत्वस्याविरोधादबाधत्वात् धर्मिणं विशेषयदपि
481 प्रयत्नोत्थत्वं शब्दे प्रसिद्धमेव । यथा बहुषु पिण्डेषु दृश्यमानेषु किमयमश्वो नवे
ति
संशयोऽभिधीयते विशा( ? षा)णवानेष पिण्डो धर्मी नाश्वो विषाणित्वादिति ।
विषाणित्वं धर्मिणं विशेषयदिप प्रमाणप्रतीतत्वान्नासिद्धो हेतुः ।

साध्यकालाङ्गता वा न निवृत्तेरुपलक्ष्य तत् ।
विशेषोपि प्रतिज्ञार्थो धर्मभेदान्न युज्यते ॥ १८८ ॥

अथवा विशेषणस्य प्रयत्नोत्थत्वादेस्तच्छब्दरूपं विशेष्यत्वेनोपलक्ष्यानुमानात्
प्रागेव निवृत्तेः (।) साध्यकालेऽनुमेयप्रतीते कालेऽङ्गता विशेषणता नास्त्येव
अप्रतीतं ह्यनुमानात् प्रत्येतव्यं । प्रयत्नोत्थत्वादि
ति च प्रतीतं । न च तत्र
विवादः । ततो धर्मिमात्रोपलक्षणन्तत् । यथा काको देवदत्तगृहोपलक्षणत्वान्न
कार्योपयोगी (।) यद्यपि2350 विशिष्टे धर्मिणि प्रतिज्ञार्थैकदेशत्वं हेतोः । तथा नित्यः
शब्दः श्रावणत्वादिति शब्दस्वभावभूतस्य श्रावणत्वस्य शब्दत्ववत् प्रतिज्ञार्थैक
देशता स्यात् नासाधारणतेत्याह । न केवलं विषाणित्वादिर्व्विशेषः श्रावणत्वादि97b
रपि प्रतिज्ञार्थै
कदेशो न युज्यते । धर्मस्य व्यावृत्तेर्भेदात् । श्रावणत्वं श्रवणग्रा
ह्यताऽश्रावणव्यावृत्तिः (।) तच्च शब्देपि क्वचित् कञ्चित् पुरुषमपेक्ष्य भवति ।
अशब्दव्यावृत्तिस्तु शब्दत्वं तच्च सर्व्वत्रास्ति ततो व्यावृत्तिभेदात् शब्दे सिद्धस्य
श्रावणत्वस्यान्यत्राननुवृत्तेरसाधारणतैव युक्तेत्युक्तं सपरिकरं पक्षलक्षणम् ॥

इति पक्षलक्षण(म् । )

  1. साधर्म्यवैधर्म्योदाहरणापेक्षः तथा न तथेति पक्षधर्मोपसंहार उपनय इह तु
    वैधर्म्योपनयः । यदाह तस्मात् सर्वत्वान्नानित्य इति ।

  2. सर्वमनित्यत्वेन व्याप्तं शब्दमनित्यत्वात्ततोऽन्य इत्यसर्वत्वं हेतुः स्यात् ।

  3. शब्दोऽसर्व्व इति पर्यायाः । तथा च यथा नित्यः शब्दः शब्दत्वादिति
    प्रतिज्ञार्थैकदेशो हेतुरसिद्धस्तथेहाप्यसिद्धिरिति समुदायार्थः ।

  4. तत्रैव---उपरिमस्य पतितमेतत् ।

  5. स्वभावहेतौ ।

  6. अनित्यं शब्दे ।

  7. नित्यः शब्दः शब्दत्त्वादित्यत्र ।

  8. साध्यस्य धर्मिणो धर्मस्य वा साधनतया विरोध एकस्य ज्ञाप्यज्ञापकत्व
    विरोधात् (।) अत्र तु विशेषः साध्यः सामान्यं साधनं तत्त्वे प्रतिज्ञया सिद्धि
    प्रसक्तेः ।

  9. यदि च ।