६. हेतुचिन्ता

(२) हेतुलक्षणम्

म. पक्षधर्मप्रभेदकथने कारणम्

हेतुलक्षणमिदानीम्वक्तव्यं । तत्र हेतुलक्षणमेव तत्र यः सन् सजातीयेइत्या
दिकं युक्तं
वक्तुं । सपक्षे सन्नसन् द्वेधा पक्षधर्मः पुनस्त्रिधेत्यादिना नवधा
पक्षधर्मप्रभेदस्तु कस्मादुक्त 2351 इत्याह ।

पक्षधर्मप्रभेदेन सुखग्रहणसिद्धये ।
हेतुप्रकरणार्थस्य सूत्रसंक्षेप उच्यते ॥ १८९ ॥
482

पक्षधर्मस्य नवधा प्रभेदेन हेतुप्रकरणार्थस्य हेतुहेत्वाभासलक्षणात्मकस्य
सुखेन ग्रहणस्य सिद्धये तदर्थवाचकानां सूत्राणां संक्षेपतः संग्रह उच्यते ॥ सपक्षे
सन्नित्यादिना (।)

ख. सूत्रे निपातग्रहणफलम्

यदि पक्षस्य धर्मो हेतुस्तदा तद्विशेषणापेक्षस्य धर्मस्यान्यत्र धर्मिण्यननुवृत्ते
रसाधारणता स्या
त् । अथ पक्षेण न विशिष्यते तदा न पक्षधर्मो हेतुः स्यात् ।
असदेतत् । न ह्यन्ययोगव्यवच्छेदेनैव विशेषणमन्यथापि सम्भवादिति दर्शयितुमाह ।

अयोगं योगमपरैरत्यन्तायोगमेव च ।
व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥ १९० ॥

निपात एवकारो व्यतिरेचकः नियामकः क्वचिद् धर्मस्य विशेषणस्या
योगं व्यवच्छिनत्ति क्वचिदपरैर्व्विशेष्यादन्यैर्योगं व्यवच्छिनत्ति । क्वचिदत्यन्तायोगं व्यवच्छिनत्ति ॥

ननु निपातो न स्वयं वाचकः किन्तु द्योतकः । तदस्य कथ
मयमर्थप्रभेद
इत्याह ।

विशेषणविशेषाभ्यां क्रियया च सहोदितः ।

द्योतकत्वादेव निपातो विशेषणेन सहोदितोऽयोगस्य व्यवच्छेदकः । विशे
ष्येण
सहोक्तोन्ययोगस्य । क्रियया च सहोक्तोऽत्यन्तायोगस्येति विशेषणादि
पदवाच्य एवायोगव्यवच्छेदादिस्तत्सहोक्तनिपातद्योत्य इत्यर्थः ।

भवतु तावन्निपातप्रयोगे व्यवच्छेदविशेषस्य प्रतीतिः पक्ष2352 इत्यादौ तु
कथमित्याह ।

विवक्षातोऽप्रयोगेपि सर्वोऽर्थोयं प्रतीयते ॥ १९१ ॥
व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः ।
पार्थो धनुर्द्धरो नीलं सरोजमिति वा यथा ॥ १९२ ॥

अप्रयोगेपि निपात
स्य वक्तुर्व्विवक्षातः सर्व्वोंयमयोगव्यवच्छेदादिरर्थः
प्रतीयते । यतो व्यवच्छेदफलं वाक्य
मित्युक्तं प्राक् । वाक्यञ्चोपलक्षणं पदमपि
व्यवच्छेदफलं । न हि घटेनोदकमानयेति प्रतिपादमनवधारणेऽघटेनानयनप्रतिषेधः ।
पक्ष इत्यादौ तु कथमित्याह । अप्रयोगेपि निपातस्य वक्तुर्व्विवक्षातः सर्व्वोयम
योगव्यवच्छेदोऽनुदकानयनप्रतिषेधः
अनानयननिवृत्तिर्व्वा शक्योपदर्शना । अयोग
483 व्यवच्छेदादीनामुदाहरणमाह । यथा चैत्रो धनुर्द्धरः । पार्थो धनुर्द्धरः । नीलं
सरोजमिति
(।) चैत्रे धनुर्द्धरत्वसन्देहाद् विशेषणेनायोगमात्रं व्यवच्छिद्यते । पार्थे धनुर्द्धरत्वं प्रसिद्धमेव (।) किन्तु तादृशमन्यस्यापि किमस्तीति सन्देहेऽन्य
योगव्यवच्छेदफलं विशेषणं । न खलु सर्व्वमेव नीलं सरोजं येना
योगव्यवच्छेदः
स्यात् । नापि सरोजमेव नीलं येनान्ययोगव्यवच्छेदो भवेत् । किन्तु नीलं सरोजं
संभवति न वेत्यन्तायोगसंदेहे विशेषणेन स एव व्यवच्छिद्यते ।

ननु भवतु तावच्चैत्रो धनुर्द्धर एव । पार्थ एव धनुर्द्धरः । सरोजं नीलं संभव
त्येवेति निपातप्रयोगे विवक्षावशात् विशेषणादिपदानामेव वा व्यवच्छेदप्रतिपा
दकत्वादप्रयोगेऽपि नि
पातस्य चैत्रो धनुर्द्धर इत्यादिप्रयोगेषु योगव्यवच्छेदादीनां 98a
प्रतीतिः । पक्षधर्म इत्यत्र पुनःपक्षो विशेषणं । धर्मो विशेष्यः । तद् यदि पक्षस्यैव
धर्म इति विशेषणेन सह निपात उच्यते अप्रयोगेपि वा विशेषणस्य तदर्थवृत्तितेष्यते ।
उप(?) भयथाप्यन्ययोगव्यवच्छेदप्रतिपादकत्वमेव स्यात् ।

अथ धर्म एव विशेष्यो निपातसहचरः । तदर्थ वृत्तिर्व्वेष्टः तदाऽयोगव्यव
च्छेदो लभ्यत एव परं
विशेषणसहितोऽन्ययोगं व्यवच्छिनत्तीत्युक्तेर्व्विरुध्यते ।
अत्रोच्यते । बाह्यो निपातः श्रूयमाणोपि विशेष्यादिभिः सह वक्तृविवक्षावशाद्
गम्यमानो वाऽयोगव्यवच्छेदको भवतीति दृष्टान्तप्रदर्शनार्थमुक्तं । तथैव चैत्रो धनु
र्द्धर इत्याद्युदाहरणप्रदर्शनात् । व्यवच्छेदफलं वाक्यमित्युक्तेश्च । समासे तु
विशेषणमेवायोगादिव्यवच्छेदकं विवक्षावशादिष्टं । अयोगव्यवच्छे
देन विशेष
णादित्युक्तेः । पक्षधर्म इति पक्षशब्दोऽयोगव्यवच्छेदकः । पक्षासम्बद्धो न भव
तीत्यर्थः । चाक्षुषं रूपमिति चाक्षुषत्वस्य रूपे विवादाभावात् (।) शब्दादीनां
विशेषणेन व्यवच्छेदः क्रियते । नीलोत्पलमिति । उत्पले नीलत्वनियमाभावात् (।)
परेष्वभावादयोगान्ययोगयोर्व्यवच्छेदाभावात् नीलशब्देनात्यन्तासम्भवमात्रं व्यव
च्छिद्यते । इति न कश्चिद्विरोधः ।

ननु य
था पार्थ एव धनुर्द्धर इति विशेषणस्य सन्निधानात् निपातस्य विशे
ष्यान्तरव्यवच्छेदः । तथा विशेषणसन्निधानादवधारणस्य चैत्रो धनुर्द्धर एवेति
गुणान्तरव्यवच्छेदः स्यादित्याह ।

प्रतियोगिव्यवच्छेदस्तत्राप्यर्थेषु गम्यते ।
तथा प्रसिद्धेः सामर्थ्याद् विवक्षानुगमाद् ध्वनेः ॥ १९३ ॥

तत्र विशेषणादिष्वर्थेषु व्यवच्छेदेपि क्रियमाणे प्रकरणाद् बुद्धिविषयीकृतस्य
प्रतियोगिव्यवच्छेदो विशेषणेन गम्यते नान्यस्य । तथा प्रसिद्धेः प्रतियोगिन
484 एव बुद्धिस्थीकृत्य विशेषणे
न व्यवच्छेदो नेतरस्येति लोकप्रसिद्धेः । विवक्षाया
अनुगमात् ध्वने
र्व्यवच्छेदादौ सामर्थ्यान्नाविवक्षितव्यवच्छेदः । यत एवायोगव्यव
च्छेदोप्यस्ति (।)

तदयोगव्यवच्छेदाद् धर्मी-धर्मविशेषणम् ।
तद्विशिष्टतया धर्मो न निरन्वयदोषभाक् ॥ १९४ ॥

तत् तस्माद् धर्मी पक्षो धर्मस्यायोगव्यवच्छेदाद् विशेषणं धर्मिणो नाधर्मो2353
हेतुरित्यर्थः । अयोगव्यवच्छेदात् तेन धर्मिणा विशिष्टतया धर्मो निरन्वयदोषभाग्
भवति ।

सपक्षे घटादौ सन् शब्दानित्यत्वे साध्ये
कृतकत्वं हेतुः । असन् सपक्षे व्योमादौ
शब्दानित्यत्वे साध्ये कृतकत्वं हेतुः । सपक्षे द्वेधा । सन्नसँश्च (।) शब्दानित्यत्वे
साध्ये यत्नजत्वं हेतुः । घटादौ सपक्षे सन् विद्युदादौ चासन् । पुनस्त्रिधा (।)
सपक्षे सन् असन् सदसँश्च (।) शब्दस्य यत्नजत्वे साध्ये सपक्षे घटादावनित्यत्वं
हेतुः सन् । शब्दानित्यत्वे साध्ये यत्नजत्वं हेतुरसन् विद्युदादौ सपक्षे ॥ शब्दे

यत्नजत्वे साध्येऽनित्यत्वं हेतुः सपक्षे विद्युदादौ सन् । व्योमादौ चासन् । एवं
प्रत्येकमसपक्षेपि सन् असन् द्वेधा चेति योज्यं । शब्दनित्यत्वे साध्ये प्रमेयत्वं हेतुः (।)
असपक्षे घटादौ सन् (।) शब्दनित्यत्वे साध्ये श्रावणत्वं हेतुरसपक्षेऽसन् शब्द
नित्यत्वे साध्येऽस्पर्शवत्वं हेतुरसपक्षे घटादावसन् (।) बुद्ध्यादौ सन्निति द्विधा
98b पक्षधर्मनिर्देशः । किमर्थ हे
तुप्रकरणे नवधा पक्षधर्मनिर्देशः ।---

  1. स मु च्च ये ।

  2. ...पक्षधर्मः ।

  3. अपि तु धर्म एव ।