(२) हेतुभेदा

---सम्यग्धेतुरसिद्धविरुद्धानैकान्तिकहेत्वाभासा एव युक्तनिर्देशा इत्याह ।

स्वभावकार्यसिध्यर्थं द्वौ द्वौ हेतुविपर्ययौ ।
विवादाद् भेदसामान्ये शेषो व्यावृत्तिसाधनः ॥ १९५ ॥

स्वभावकार्ययोरेव हेतुत्वेन सिद्ध्यर्थं तत्र द्वौ शब्देऽनित्यत्वसिद्ध्यर्थं कृतकत्व
प्रयत्नानन्तरीयकत्वाख्यौ हेतू निर्दिष्टौ । तथा शब्द एव नित्यत्वसाधने द्वौ हेतु
विपर्ययौ
विरुद्धौ हेतुभावे चोक्तौ । यथा हि सम्यग्धेतोः स्वसाध्ये व्याप्यकार्य
तया प्रतिबद्धस्य गमक
त्वं । तथा साध्यविपर्यये व्याप्यकार्यतया प्रतिबद्धस्यैव
485 तद्गमकत्वेन विरुद्धता नान्यस्येत्यर्थः । व्यतिरेकी2354अन्वयी च हेतुरिति परेषां विवा
दात्
तत्प्रतिषेधार्थं भेदसामान्येऽसाधारणसाधारणे श्रावणत्वप्रमेयत्वे निर्द्दिष्टे । यदि
विपक्षे नास्तीति सात्मकत्वे साध्ये प्राणादिमत्वं हेतुस्तदा श्रावणत्वमपि स्यात् ।
न चैवं (।) तस्मान्न व्यतिरेकी हेतुः । यदि च केवलान्वयिनो दर्शनमात्राध्यवसिता
व्यभिचा
रस्य हेतुत्वं तदा प्रमेयत्वस्याकाशादौ दर्शनादव्यभिचारनिश्चये सति
शब्दे नित्यत्वगमकत्वं स्यान्न चैवं । ततो न केवलान्वयी हेतुः । शेषोऽप्रयत्नोत्थः
शब्दोऽनित्यत्वात् । नित्यः शब्दोऽस्पर्शवत्वात् । प्रयत्नानन्तरीयः शब्दोऽनित्यत्वा
दिति हेतुत्रयं विपक्षाद्धेतोर्व्यावृत्तिसाधनः ।---

---यदि हि सपक्षे दर्शनमात्रेण गमकत्वं तदैते हेतवः प्राप्ताः (।) सर्व्वेषां सपक्षे सत्वात्
(।) तस्मान्नान्वयसम्बन्धमात्रेण गमकत्वं (।) किन्तु विपक्षाद् व्यतिरेक
निश्चये न चास्ति व्यतिरेकनिश्चयः (।) प्रधानं हेतुत्वनिबन्धनमित्यर्थः । कथं
पुनर्ज्ञायते स्वभावहेतुः कृतकत्वं । कार्यहेतुः प्रयत्नानन्तरीयकमित्याह ।

न हि स्वभावादन्येन व्याप्तिर्गम्यस्य कारणे ।
सम्भवाद् व्यभिचारस्य द्विधावृत्तिफलं ततः ॥ १९६ ॥

न हि स्वभावाद्धेतोरन्येन हेतुना गम्यस्य साध्यस्य व्याप्तिः । यत्र यत्रा
नित्यत्वं तत्र कृतकत्वमिति दृश्यते च व्याप्तिः (।) तस्मात् स्वभावहेतुरेव2355 ।
नावश्यं कारणानि कार्यवन्ति भवन्तीति कारणे कार्य
स्य व्यभिचारसम्भवात् ।
कार्यं कारणव्यापकं न भवति । 2356 तत्र सपक्षे द्विधावृत्तिभावाभावात् प्रत्यत्ना2357नन्तरी
यत्वं फलं कार्यहेतुः2358 प्रयत्नकार्यस्य तथाभिधानात् ।

ननु प्रयत्नजेन ज्ञानेनानित्यः शब्दोऽनुमेय इष्टः (।) शब्दाश्च नित्या एव
तद्विषयज्ञानोत्पादादिना यत्नेन ते व्यज्यन्ते(।)तत्कथं कार्यहेतूदाहरणमिदमित्याह ।

प्रयत्नानन्तरं ज्ञानं प्राक्सतो नियमेन न ।
तस्यावृत्यक्षशब्देषु सर्वथाऽनुपयोगतः ॥ १९७ ॥

प्रयत्नात् प्राक् सतः शब्दस्य नियमेन प्रयत्नानन्तरं ज्ञानं
यज्यते । प्रयत्नं
विनापि कदाचिदुपलभ्येत । न च प्रयत्नव्यज्यता शब्दानां युक्ता । तस्य प्रयत्नस्य
486 आवृतावुपलम्भावरणे शब्दविषयज्ञानजनके श्रोत्रे शब्देषु च विषयेषु सर्व्वथा
ऽकिञ्चित्करत्वेनानुपयोगत इत्युक्तं प्राक्2359 ।

किञ्च (।)

कदाचिन्निरपेक्षस्य कार्याऽकृतिविरोधतः ।
कादाचित्कफलं सिद्धं तल्लिङ्गं ज्ञानमीदृशम् ॥ १९८ ॥

सहकारिभिरनाधेयातिशयत्वेन्नित्यस्य कदाचित् प्रयत्नकाले कार्यस्य ज्ञानस्य
(ा)कृतिविरोधतः कारणात् तच्छ्रुतिविषयं ज्ञानं कादाचित्कस्यानित्यस्य शब्दस्य

फलं लिङ्गं कार्यमीदृशं नियमेन प्रयत्नानन्तरभावि सिद्धम् ॥ (१९८)

  1. नैयायिकस्य ।

  2. कारणेपि व्याप्तिः स्यादित्याह ।

  3. स्वभावहेतौ ।

  4. शब्दोच्चारणप्रयत्नानन्तरजं शब्दालम्बनं ज्ञानं ।

  5. भवार्थे गहादित्वाच्छः प्रयत्नानन्तरीयकत्वं घटादौ सत् विद्युदादौ चासदिति सपक्षे द्विधावृत्तिर्यतः ।

  6. श्रुतिपरीक्षायां ।