नान्तरीयकता ज्ञेया यथास्वं हेत्वपेक्षया ।
स्वभावस्य यथोक्तं प्राक् विनाशकृतकत्वयोः ॥ २५८ ॥

स्वभावस्य च हेतोर्नान्तरीयकता साध्या अविनाभाविता ज्ञेया । यथास्वं यस्य स्वभावहेतोर्य आत्मीयस्तादात्म्यसाधको हेतुः साधनं तस्यापेक्षया । यथा
प्रागुक्तं विनाशकृतकत्वयो

स्तादात्म्यसाधनं अवश्यं हि कृतकानाम्विनाशः । न
चार्थसापेक्षाणामवश्यं भावः । ततः स्वभावत एव कृतकानन्नश्वराणां विनाशं
प्रत्यनपेक्षित्वादिति दर्शितं । तदेव स्वभावकार्ययोरव्यभिचारित्वाद्धेतुत्वं । न च
प्राणादेरात्मकार्यत्वं सिद्धमिति कथं हेतुता । (२५८)