ख. प्राणादेरुक्तो दोष आचार्येण

नन्वयं प्राणादेरुक्तो दोषकलापि आ चा र्ये णे ष्ट इति कथं गम्यत इत्याह ।

अहेतुत्वगतिन्यायः सर्वोयं व्यतिरेकिणः ।
अभ्यूह्यः श्रावणत्वोक्तेः कृतायाः साम्यदृष्टये ॥ २५९ ॥

सर्व्वस्यासादार
णस्य दोषदुष्टत्वेन साम्यदृष्टये तुल्यतोपदर्शनाया चा र्ये ण श्राव
णत्व
स्यासाधारणस्य योक्तिः कृता तस्या एवायं व्यतिरेकिणः प्राणादेरन्यस्य च
हेतोरहेतुत्वगतिन्यायः सर्व्वोऽभ्यूह्यः । (२५९)