(३) कार्यस्वभावहेत्वोर्निर्देशस्य फलम्

एतावतैव सिद्धेपि स्वभावस्य पृथक् कृतिः ।
कार्येण सह निर्द्देशे मा ज्ञासीत् सर्वमीदृशम् ॥ १९९ ॥

एतावता प्रयत्नानन्तरीयकत्वेनैव स्वभावहेतुनिर्देशेपि सिद्धे प्रयत्नानन्तर
मुत्पादस्याभिव्यक्तेश्च तथाभिधानात् । तथापि स्वभावस्य कृतकत्वस्य हेतोर्या
पृथक्कृतिः सा कार्येण सह श्लेषेण निर्देशे मा ज्ञासीत् प्रतिपत्ता सर्व्वं स्वभावहेतुमी
99a दृशं सपक्षे द्विधावृत्तिं कृतकत्वादेः
विपर्ययव्याप्तिसम्भवात् । (१९९)