ननु यथा व्यवच्छेदविषयाऽनुपलब्धिः तथा कार्यस्वभावावपीति अनुप
लब्धिरेवैको हेतुः स्यादित्याह ।

अनङ्गीकृतवस्त्वंशो निषेधः साध्यतेनया ।
वस्तुन्यपि तु पूर्वाभ्यां पर्युदासो विधानतः ॥ २६२ ॥

अनयानुपलब्ध्या
न केवलम्वस्तुनि अवस्तुन्यपि निषेधः केवलो नाङ्गीकृत
वस्त्वंशः
कारणव्यापकानुपलब्धिभ्यां वस्तुव्यवच्छेदमात्रं अभावव्यवहारश्च
साध्यते (।) यथा प्रदेशे धर्मिणि घटाभावः । पूर्व्वाभ्यां कार्यस्वभावाभ्यां त्वन्य
व्यवच्छेदे नैकस्य विधानतः पर्युदासः साध्यते (।) यथाऽनग्निव्यवच्छेदेनाग्निः ।
नित्यव्यवच्छेदेनानित्यत्वं । (२६२)