१. प्रमाणलक्षणम्
(१) अविसंवादि ज्ञानम्
ज्ञानं प्रमाणं10नाज्ञानमिन्द्रियार्थसन्निकर्षादि । कीदृशमविसंवादि । विसंवा
दनं विसंवादो वञ्जनं तद्योगाद्विसंवादि । न तथाऽसावविसंवादि । अविसम्वाद
नमुक्तमित्यर्थः । किं पुनरित्याह (।)
यथोपदर्शितार्थस्य क्रियायाः स्थि
तिः प्रमाणयोग्यताऽविसंवादनं(।) अतश्च यतो
ज्ञानादर्थं परिच्छिद्यापि11 न प्रवर्तते प्रवृत्तो वा कुतश्चित्प्रतिबन्धादेरर्थक्रियान्नाधि
गच्छति । तदपि प्रमाणमेव प्रमाणयोग्यतालक्षणस्याविसंवादस्य सत्त्वात् । सैव
प्रमाणयोग्यता कथमसत्यामर्थक्रियाप्राप्तौ निश्चीयत इति चेत् (।) यत्तावदसकृद्
व्यवहाराभ्यासाद्दर्शनमात्रेणोपलक्षितभ्रमविविक्तस्वरूपविशेषं साधना
ध्यक्षं तस्य12
004 स्वत एव प्रमाणयोग्यतानिश्चयः कृत्रिमाकृत्रिममणिरुप्यादितत्वनिश्चयवत् ।
अंनुमानस्य च साध्यप्रतिबद्धजन्मनो व्यभिचाराशङ्काविरहात् । अर्थक्रियानिर्भा
सन्तु प्रत्यक्षं स्वत एवार्थक्रियानुभवात्मकं न तत्र परार्थक्रियाऽपेक्ष्यत इति तदपि
स्वतो निश्चितप्रामाण्यं । अत एवार्थक्रियापरंपरानुसरणादनवस्थादोषोपि दुस्थ
एव । यत्त्वनभ्यस्तदशायां
संदिग्धप्रामाण्यमुत्पत्तौ13 तस्यार्थक्रियाज्ञानादनुमानाद्वा
प्रामाण्यं निश्चीयते । एतच्चाविसंवादनं बाह्यार्थेतरवादयोः समानं प्रमाण
लक्षणं (।) वि ज्ञा न नयेपि14 साधननिर्भासज्ञानानन्तर15मर्थंक्रिया16निर्भासज्ञानमेव17
संवादः । अतो विज्ञप्तिमात्रत्वे प्रमाणेतरविभागव्यवहारोऽसंकीर्ण्णः।
ननु शब्दगन्धरसस्पर्शान् चित्ररूपञ्च पश्यतो ज्ञानस्य परमर्थक्रियाज्ञानं
नास्तीति
तत्प्रमाणन्न18 स्यादित्याह ।
शाब्दे शब्दजनिते ज्ञानेऽपि शब्दाद् गन्धादिविषयेऽपि अभिप्रायस्याभिप्रेतार्थ
क्रिया (या) निवेदनात् प्रतिपादनात्प्रामाण्यं (।) अर्थक्रिया हि क्वचित्स्वरूपप्रति
पत्तिरेव । क्वचित्ततोऽन्या यथासम्भवं व्यवहारविषयः । तत्प्रापणञ्च प्रामाण्य
मिति नाव्यापकं प्रमाणलक्षणम् । (३)