003 करणात् । तैः परिगतो युक्तः सन् विद्वेष्ट्यपि । ईर्ष्यामलैरिति व्यक्त्यपेक्षया
बहुवचनं । अनेन यथाक्रममनर्थित्वममाध्यस्थ्यञ्चोक्तं (।) तेन श्रोतृदोषकलार्पेन
अयमा
रिप्सितो वार्त्तिकाख्यो ग्रन्थः (।) परमुपकरोतीति परोपकार इति नोऽस्माक
ञ्चि
न्तापि
नास्ति । कथन्तर्हि शास्त्रकरणे प्रवृत्तिरित्याह चेतश्चिरं दीर्घकालं 2a
सूक्त
स्याभ्यासेन विवर्द्धितव्यसनं विस्तारिताभिष्वङ्गमितिहेतोरत्र वार्तिककरणे
ऽनुबद्धस्पृहं
जाताभिलाषं । एतेन कुप्रज्ञतादिदोषजातमात्मनो बोधिताः श्रोतार
स्तत्परिहारेण शास्त्रे प्रवर्तिता एव भवन्ति ॥ (२)

ग. प्रमाणसिद्धिः

अयमाचा र्यो बृहदाचार्यीय प्र मा ण स मु च्च य शा स्त्रे वार्त्तिकं चिकीर्षुः
स्वतः कृतभगवन्नमस्कार(:) तच्छास्त्रा
रम्भसमये तदाचार्यकृतभगवन्नमस्कार
श्लोकं व्याख्यातुकामः प्रथमं9 प्रमाणसामान्यलक्षणमाह (।)

१. प्रमाणलक्षणम्

(१) अविसंवादि ज्ञानम्

प्रमाणमविसंवादि ज्ञानं;

ज्ञानं प्रमाणं10नाज्ञानमिन्द्रियार्थसन्निकर्षादि । कीदृशमविसंवादि । विसंवा
दनं विसंवादो वञ्जनं तद्योगाद्विसंवादि । न तथाऽसावविसंवादि । अविसम्वाद
नमुक्तमित्यर्थः । किं पुनरित्याह (।)

अर्थक्रियास्थितिः ।
अविसंवादनं;

यथोपदर्शितार्थस्य क्रियायाः स्थि
तिः प्रमाणयोग्यताऽविसंवादनं(।) अतश्च यतो
ज्ञानादर्थं परिच्छिद्यापि11 न प्रवर्तते प्रवृत्तो वा कुतश्चित्प्रतिबन्धादेरर्थक्रियान्नाधि
गच्छति । तदपि प्रमाणमेव प्रमाणयोग्यतालक्षणस्याविसंवादस्य सत्त्वात् । सैव
प्रमाणयोग्यता कथमसत्यामर्थक्रियाप्राप्तौ निश्चीयत इति चेत् (।) यत्तावदसकृद्
व्यवहाराभ्यासाद्दर्शनमात्रेणोपलक्षितभ्रमविविक्तस्वरूपविशेषं साधना
ध्यक्षं तस्य12

  1. द्वितीयां सम्वित्तिसिद्धिम् । प्रमाणं भूतो जातो भगवान् मानमिव किन्त
    दित्याह ।

  2. प्रमाणं सम्यग्ज्ञानमपूर्व्वगोचरमिति लक्षणं ।

  3. मरुमरीच्यादौ ।

  4. प्रमेयस्य ।