016

ननूभयासिद्धमनित्यत्वमस्ति किञ्चिदृते शब्दसाम्याद् तथा विज्ञानेन्द्रिया
युर्निरोधलक्षणं मरणमिष्टं बौद्धसिद्धान्ते तस्य च तरुष्व97 सिद्धिः । चेतनत्वस्यै98
साध्यत्वात् । न ह्यसिद्धेषु त99न्निरोधो युक्तः शोष100मात्रन्तु तरुषु मरणमुपचारा
5a दुच्यते । यदि च मरणवाच्यत्वमात्रं हेतुः
तदा तैला101दिष्वपि तत्सत्त्वात् साधा
रणानैकान्तिकता ॥(१९)

नन्वेवं कृतकत्वादिकमपि हेतु102 र्न्न स्यादाकाशगुणश्शब्दस्य धर्मो बौद्धस्यासिद्धः ।
अन्यथा चान्यस्येत्यत आह ।

वस्तुस्वरूपेऽसिद्धेऽयं न्यायः सिद्धे विशेषणम् ।
अबाधकमसिद्धावप्याकाशाश्रयवद् ध्वनेः ॥ २० ॥

वस्तुस्वरूपेऽसिद्धेऽयन्न्यायः यथोक्तासिद्धिचोदनालक्षणः वस्तुस्वरूपे तु
धर्मिणि हेतौ सिद्धे विशे103 षणमसिद्धावप्यबाधकं किमिवाकाशाश्रयवद् ध्वनेः । यथा
शब्दस्याकाशगुणत्वं विशेषणमपि न बाधकं धर्मितायाः कृतकत्वादिहेतोर्व्वा विशे
षणासिद्धा
वपि हि शब्दो धर्मी प्रत्यक्षसिद्धः । कृतकत्वादि चानुमानसि104द्धं
तावतैव च साध्यसाधनभावो निर्व्विरोधः । (२०)

यत्र शब्दोप्यसिद्धो वस्तु तु सिद्धं तत्र कथमित्याह ।

असिद्धावपि शब्दस्य सिद्धे वस्तुनि सिध्यति ।
औ लू क्य स्य यथा बौद्धेनोक्तं मूर्त्यादिसाधनम् ॥ २१ ॥

असिद्धावपि शब्दस्य सिद्धे वस्तुनि साधनाभिमते सिध्यति105 साध्यो106र्थो यथा
औलूक्यस्य
वै शे षि क स्य परमाणूनामनित्यत्वसाधनार्थं बौद्धेन मूर्त्त्यादिसाधन107

  1. तत्सिद्धौ चैतन्यं सिद्धमिति साध्यं ।

  2. न शोषमात्रस्य ।

  3. विज्ञानादिषु तत्र ।

  4. शोषोमरणमित्यपि न वर्ण्णवादिनानेकान्तात् । अपि तु यच्छोषवत्तच्चेतनावन्न सिद्धं विपर्ययेऽबाधात् ॥

  5. घृतहिङ्ग्वादिषु ।

  6. वैशेषिकेणापौरुषेयशब्दनिषेधाय मीमांसककृतः ।

  7. व्याप्यो हेतुर्न चायं विशेषणव्याप्तः । हेतुवादीष्टञ्च साध्यं विशेषणञ्च तदनिष्टं ।

  8. यः प्रत्ययभेदभेदी स कृतकः ।

  9. वस्त्वेव वस्तुनः प्रतिबन्धाद् गमकं न शब्दः ।

  10. सप्रतिभासादिवादिनां ।

  11. अनित्याः परमाणवो मूर्त्तत्वाद् घटादिवत् ।