यत्र शब्दोप्यसिद्धो वस्तु तु सिद्धं तत्र कथमित्याह ।

असिद्धावपि शब्दस्य सिद्धे वस्तुनि सिध्यति ।
औ लू क्य स्य यथा बौद्धेनोक्तं मूर्त्यादिसाधनम् ॥ २१ ॥

असिद्धावपि शब्दस्य सिद्धे वस्तुनि साधनाभिमते सिध्यति105 साध्यो106र्थो यथा
औलूक्यस्य
वै शे षि क स्य परमाणूनामनित्यत्वसाधनार्थं बौद्धेन मूर्त्त्यादिसाधन107
017 मुक्तं शब्दासिद्धावपि सिध्यति (।) तथा हि वैशेषिकस्यासर्व108 गतं द्रव्यपरिमाणं
मूर्त्तिरिष्टा बौद्धस्य स्पर्शवति109 सा प्रसिद्धा । ततो नोभयसम्प्रतिपन्ना
मूर्त्तिशब्द
वृत्तिर्व्वाच्यभेदात् ।---

---शब्दस्यासिद्धावपि च स्पर्शवत्त्वलक्षणोर्थो द्वयोरपि सिद्धः स एव हेतुत्वेनाभि
प्रेत इति भवति साधनमतश्च (।)

तस्यैव व्यभिचारादौ शब्देप्यव्यभिचारिणि ।
दोषवत् साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः ॥ २२ ॥

तस्यैवार्थस्य व्यभिचारादावादिशब्दादसिद्धत्वे विपर्य्ययव्याप्तौ च शब्देप्य110व्य
भिचारिणि दोषवत्साधनं ज्ञेयं
कस्माद्वस्तुनो हेतोर्व्वस्तुनः साध्यस्य सिद्धितः । एवं
साध्यव्याप्तार्थशून्यशब्दमात्रकाणीश्वरसाधनानि दोषवन्ति बोद्धव्यानि । (२२)

  1. वस्त्वेव वस्तुनः प्रतिबन्धाद् गमकं न शब्दः ।

  2. सप्रतिभासादिवादिनां ।

  3. अनित्याः परमाणवो मूर्त्तत्वाद् घटादिवत् ।

  4. द्विविधं द्रव्यं सर्व्वगतं पृथिव्यादि असर्व्वगतं घटादि ।

  5. न हि स परिमाणं नाम किञ्चिदिच्छति ।

  6. यथा विषाणी शाबलेयः कलभो वा गोत्वात् हस्तित्वाद्वा गमनात् हस्तयोगाद्वेत्यर्थः ।