017 मुक्तं शब्दासिद्धावपि सिध्यति (।) तथा हि वैशेषिकस्यासर्व108 गतं द्रव्यपरिमाणं
मूर्त्तिरिष्टा बौद्धस्य स्पर्शवति109 सा प्रसिद्धा । ततो नोभयसम्प्रतिपन्ना
मूर्त्तिशब्द
वृत्तिर्व्वाच्यभेदात् ।---

---शब्दस्यासिद्धावपि च स्पर्शवत्त्वलक्षणोर्थो द्वयोरपि सिद्धः स एव हेतुत्वेनाभि
प्रेत इति भवति साधनमतश्च (।)

तस्यैव व्यभिचारादौ शब्देप्यव्यभिचारिणि ।
दोषवत् साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः ॥ २२ ॥

तस्यैवार्थस्य व्यभिचारादावादिशब्दादसिद्धत्वे विपर्य्ययव्याप्तौ च शब्देप्य110व्य
भिचारिणि दोषवत्साधनं ज्ञेयं
कस्माद्वस्तुनो हेतोर्व्वस्तुनः साध्यस्य सिद्धितः । एवं
साध्यव्याप्तार्थशून्यशब्दमात्रकाणीश्वरसाधनानि दोषवन्ति बोद्धव्यानि । (२२)

(ख) ईश्वरबाधकं प्रमाणम्

ननु किं पुनरीश्वरस्य बाधकं111 प्रमाणमि
त्याह (।)

यथा तत् कारणं वस्तु तथैव तदकारणम् ।
यदा तत् कारणं केन मतं नेष्टमकारणम् ॥ २३ ॥

यथा सदृशेन स्वभावेन तदी112 श्वराख्यं वस्तु कारणमिष्टं सर्ग्गावस्थायां तथैव तेनैव स्वभावेन सर्ग्गात् प्राक् तन्न कारणं केन विशेषेण मतं । न त्व113कारणमिष्टं ।
कारणत्वं ह्यकारकावस्थाविशिष्टत्वेन व्याप्तं तदभावात्कारणत्वाभावः । (२३)

a. अकारकं न कारणम्

यदि पुनरकारकावस्थाऽविशिष्टोपीश्वरः कारणमुच्यते तदा (।)

शस्त्रौषधाभिसम्बन्धाच्चैत्रस्य व्रणरोहणे ।
असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते ॥ २४ ॥
  1. द्विविधं द्रव्यं सर्व्वगतं पृथिव्यादि असर्व्वगतं घटादि ।

  2. न हि स परिमाणं नाम किञ्चिदिच्छति ।

  3. यथा विषाणी शाबलेयः कलभो वा गोत्वात् हस्तित्वाद्वा गमनात् हस्तयोगाद्वेत्यर्थः ।

  4. विश्वकारणमीश्वर इत्यत्र ।

  5. योऽकारकावस्थाऽविशिष्टौ न स करोति स इव अविशिष्टश्चायमिति व्यापकानुपलब्धिः ।

  6. अकारणमेवेष्यतां कारणवस्थायामप्यकारकावस्थाऽविशेषात् ।