(ख) ईश्वरबाधकं प्रमाणम्

ननु किं पुनरीश्वरस्य बाधकं111 प्रमाणमि
त्याह (।)

यथा तत् कारणं वस्तु तथैव तदकारणम् ।
यदा तत् कारणं केन मतं नेष्टमकारणम् ॥ २३ ॥

यथा सदृशेन स्वभावेन तदी112 श्वराख्यं वस्तु कारणमिष्टं सर्ग्गावस्थायां तथैव तेनैव स्वभावेन सर्ग्गात् प्राक् तन्न कारणं केन विशेषेण मतं । न त्व113कारणमिष्टं ।
कारणत्वं ह्यकारकावस्थाविशिष्टत्वेन व्याप्तं तदभावात्कारणत्वाभावः । (२३)

  1. विश्वकारणमीश्वर इत्यत्र ।

  2. योऽकारकावस्थाऽविशिष्टौ न स करोति स इव अविशिष्टश्चायमिति व्यापकानुपलब्धिः ।

  3. अकारणमेवेष्यतां कारणवस्थायामप्यकारकावस्थाऽविशेषात् ।