a. अकारकं न कारणम्

यदि पुनरकारकावस्थाऽविशिष्टोपीश्वरः कारणमुच्यते तदा (।)

शस्त्रौषधाभिसम्बन्धाच्चैत्रस्य व्रणरोहणे ।
असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते ॥ २४ ॥
018

चैत्रस्य शस्त्रौषधयोः सम्बन्धाद् व्रणे व्रणरोहणे च वृत्तेऽसम्बद्धस्य व्यापार
द्वारेणाप्रत्यासन्न
स्य स्थाणोः किं कारणत्वं न कल्प्यते निमित्तस्य समानत्वात् । (२४)