018

चैत्रस्य शस्त्रौषधयोः सम्बन्धाद् व्रणे व्रणरोहणे च वृत्तेऽसम्बद्धस्य व्यापार
द्वारेणाप्रत्यासन्न
स्य स्थाणोः किं कारणत्वं न कल्प्यते निमित्तस्य समानत्वात् । (२४)

नन्वकारणावस्थातो व्यापारसमावेशादस्ति विशेषः कारणवस्थायामित्याह114 ।

स्वभावभेदेन विना व्यापारोपि न युज्यते ।

स्वभावभेदेन विना न केवलं कारकत्वं (।) व्यापारोपि निर्व्यापारस्य नित्यस्य
न युज्यते (।)

किञ्च (।)

नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वयम् ॥ २५ ॥

नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वयं दुरवगमं न ह्यस्तीति कारणम्
(।)अपि तु यदभावात्कार्याभावः स तत्कारणमन्यथाऽकाशादीनामपि हेतुत्वप्रसङ्गः ।

(२५)

अपि च (।)

येषु सत्सु भवत्येव यत् तेभ्योऽन्यस्य कल्पने ।
तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितिः ॥ २६ ॥

येषु कारणेषु सत्सु115 यत्कार्यम्भवत्येव तेभ्यः कारणेभ्योन्यस्य पदार्थस्य तत्कार्य
हेतुत्वेन116ल्पने सर्व्वत्र कार्यहेतूनामनवस्थितिः प्राप्नोत्यपरापरकल्पनया (।)
तस्माद् दृष्टसामर्थ्या एव क्षितिबीजादयः कारणमङ्कुरस्य नेश्वरादिरदृष्टसा
मर्थ्यः । (२६)

ननु क्षित्यादिरप्यकारकावस्थातो न विशिष्टस्व117 भावः कारणावस्थायामङ्
कुरस्येत्याह (।)

स्वभावपरिणामेनमे न हेतुरङ् कुरजन्मनि ।
भूम्यादिस्तस्य संस्कारे तद्विशेषस्य दर्शनात् ॥ २७ ॥

उपसर्पणप्रत्यया118ददृष्टसह119 कारिणः प्राप्तकार्योत्पादानुगु
णातिशया भूम्यादिः
स्वभावपरिणामेनमे न
कार्यानुगुणातिशयतारतम्यमुक्तापरापरक्षणलक्षणेनान्त्यावस्था

  1. पूर्व्वस्यासिद्धिं परिहरति शशविषाणवत् ।

  2. निमित्तकारणमीशस्तन्तुवायवदित्याह ।

  3. यदा तदा तत्कारणं ।

  4. एतेन पूर्व्वस्यानेकान्तमाह । असंस्कृतक्षेत्रादयः (।)

  5. आद्युत्पत्तौ जगतो निमित्तमिति चेन्न तेनैवानेकान्त ईश्वरान्तरप्रसङ्गात्
    तन्मात्रहेतुत्वे कर्मनैफल्यं ॥

  6. वृष्ट्यादि ।