नन्वकारणावस्थातो व्यापारसमावेशादस्ति विशेषः कारणवस्थायामित्याह114 ।

स्वभावभेदेन विना व्यापारोपि न युज्यते ।

स्वभावभेदेन विना न केवलं कारकत्वं (।) व्यापारोपि निर्व्यापारस्य नित्यस्य
न युज्यते (।)

किञ्च (।)

नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वयम् ॥ २५ ॥

नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वयं दुरवगमं न ह्यस्तीति कारणम्
(।)अपि तु यदभावात्कार्याभावः स तत्कारणमन्यथाऽकाशादीनामपि हेतुत्वप्रसङ्गः ।

(२५)

  1. पूर्व्वस्यासिद्धिं परिहरति शशविषाणवत् ।