ननु क्षित्यादिरप्यकारकावस्थातो न विशिष्टस्व117 भावः कारणावस्थायामङ्
कुरस्येत्याह (।)

स्वभावपरिणामेनमे न हेतुरङ् कुरजन्मनि ।
भूम्यादिस्तस्य संस्कारे तद्विशेषस्य दर्शनात् ॥ २७ ॥

उपसर्पणप्रत्यया118ददृष्टसह119 कारिणः प्राप्तकार्योत्पादानुगु
णातिशया भूम्यादिः
स्वभावपरिणामेनमे न
कार्यानुगुणातिशयतारतम्यमुक्तापरापरक्षणलक्षणेनान्त्यावस्था
019 प्राप्ताऽङ्कुरजन्मनि हेतुर्भवति (।) स तु पूर्व्वपरैकरूपः क्रमाक्रमयोरर्थक्रिया
विरोधात् । कुत एतदिति चेत् तस्य भूम्यादेः कर्षणपांसुप्रक्षेपादिना संस्कारे तस्याङकुरस्य पुष्टतरादिविशेषस्य दर्शनात् । (२७)

  1. एतेन पूर्व्वस्यानेकान्तमाह । असंस्कृतक्षेत्रादयः (।)

  2. आद्युत्पत्तौ जगतो निमित्तमिति चेन्न तेनैवानेकान्त ईश्वरान्तरप्रसङ्गात्
    तन्मात्रहेतुत्वे कर्मनैफल्यं ॥

  3. वृष्ट्यादि ।