004 स्वत एव प्रमाणयोग्यतानिश्चयः कृत्रिमाकृत्रिममणिरुप्यादितत्वनिश्चयवत् ।
अंनुमानस्य च साध्यप्रतिबद्धजन्मनो व्यभिचाराशङ्काविरहात् । अर्थक्रियानिर्भा
सन्तु प्रत्यक्षं स्वत एवार्थक्रियानुभवात्मकं न तत्र परार्थक्रियाऽपेक्ष्यत इति तदपि
स्वतो निश्चितप्रामाण्यं । अत एवार्थक्रियापरंपरानुसरणादनवस्थादोषोपि दुस्थ
एव । यत्त्वनभ्यस्तदशायां
संदिग्धप्रामाण्यमुत्पत्तौ13 तस्यार्थक्रियाज्ञानादनुमानाद्वा
प्रामाण्यं निश्चीयते । एतच्चाविसंवादनं बाह्यार्थेतरवादयोः समानं प्रमाण
लक्षणं (।) वि ज्ञा न नयेपि14 साधननिर्भासज्ञानानन्तर15मर्थंक्रिया16निर्भासज्ञानमेव17
संवादः । अतो विज्ञप्तिमात्रत्वे प्रमाणेतरविभागव्यवहारोऽसंकीर्ण्णः।

ननु शब्दगन्धरसस्पर्शान् चित्ररूपञ्च पश्यतो ज्ञानस्य परमर्थक्रियाज्ञानं
नास्तीति
तत्प्रमाणन्न18 स्यादित्याह ।

शाब्देप्यभिप्रायनिवेदनात् ॥ ३ ॥

शाब्दे शब्दजनिते ज्ञानेऽपि शब्दाद् गन्धादिविषयेऽपि अभिप्रायस्याभिप्रेतार्थ
क्रिया (या) निवेदनात् प्रतिपादनात्प्रामाण्यं (।) अर्थक्रिया हि क्वचित्स्वरूपप्रति
पत्तिरेव । क्वचित्ततोऽन्या यथासम्भवं व्यवहारविषयः । तत्प्रापणञ्च प्रामाण्य
मिति नाव्यापकं प्रमाणलक्षणम् । (३)

ननु शब्दस्यार्थप्रतिबन्धाभावान्न प्रामाण्यं स्यादिष्यते चानुमानत्वादि
त्याह(।)

वक्तृव्यापारविषयो योर्थो बुद्धौ प्रकाशते ।
प्रामाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम् ॥ ४ ॥

वक्तृर्व्यापारो विवक्षा तस्य विषयो योऽर्थः समारोपितबही रूपो ज्ञानाकारः
प्रकाशते बुद्धौ विवक्षा19त्मिकायां (।) तत्र शब्दस्य प्रामाण्यं लिङ्गत्वं । शब्दादुच्च
रिताद्विवक्षितार्थप्रतिभासी विकल्पो20नुमीयत इत्यर्थः । तत्कार्यत्वात्तच्छब्दस्य ।
पुनरर्थतत्त्वनिबन्धनं
तत्प्रतिबन्धाभावात् ॥ (४)

ननु घ21टोयमित्यादिज्ञानात्प्रवर्तमानस्य सम्बन्धोस्त्येवेति तत् प्रमाणं
स्यात् (।) इत्याह ।

  1. सत्यां ।

  2. अव्यापकत्वं निरस्यन्नाह ।

  3. वह्निज्ञानान्तरं दाहादिज्ञानं ।

  4. रविचन्द्राम्बुदचित्रादीनां दर्शनमेवार्थक्रियास्थितिः ।

  5. यदर्थाकारं ज्ञानं तद् बाह्यार्थाविनाभावि यथा अर्थक्रियानिर्भासं ।

  6. विना भ्रान्तिं प्रयुक्ते ।

  7. संकेतबलात् ।

  8. विकल्पशब्द . . . न नदी . . . . . . । . . .

  9. येन ज्ञात्वा प्रवृत्तस्यार्थसंवादस्तच्चेत्प्रमाणं घटविकल्पोपि स्यात्प्रमा ॥