019 प्राप्ताऽङ्कुरजन्मनि हेतुर्भवति (।) स तु पूर्व्वपरैकरूपः क्रमाक्रमयोरर्थक्रिया
विरोधात् । कुत एतदिति चेत् तस्य भूम्यादेः कर्षणपांसुप्रक्षेपादिना संस्कारे तस्याङकुरस्य पुष्टतरादिविशेषस्य दर्शनात् । (२७)

यथा विशेषेण विना विषयेन्द्रियसंहतिः ।
बुद्धेर्हेतुस्तंथेदं चेन्न तत्रापि विशेषतः ॥ २८ ॥

ननु यथा विशेषेण विना विषयेन्द्रियसंहतिरक्षेपक्रियाधर्मिणी बुद्धेर्हेतु
र्भवति15b
तथेदमीश्वरादि वस्तुविशेष120 म्विना सहकारिसन्निधानेन कार्यं करोतीति चेत् ।
न (।) तत्रापि विषयेन्द्रियादिसंहतौ प्रागवस्थावदुपसर्प्पणप्रत्ययजनिताद्विज्ञानजनन
शक्तक्षणप्रज्ञालक्षणाद्विशेषात् । (२८)

अन्य121था (।)

पृथक् पृथगशक्तानां स्वभावातिशयेऽसति ।
संहतावप्यसामर्थ्यं स्यात् सिद्धोऽतिशयस्ततः ॥ २९ ॥

पृथक् पृथगशक्तानां विषयेन्द्रियाणां स्वभावातिशयेऽसति संहतावप्य122 सामर्थ्यं
स्यात्
 । ज्ञानार्जनम्प्रति स्वरूपाभेदात् । उत्पद्यते च ज्ञानं सिद्धोतिशयस्ततो ज्ञानो
त्पादात् । (२९)

b. संहतौ हेतुता नेश्वरादौ

तस्मात् पृथगशक्तेषु येषु संभाव्यते गुणः ।
संहतौ हेतुता तेषां नेश्वरादेरभेदतः ॥ ३० ॥

तस्मात् पृथगशक्तेषु येषु
सम्भाव्यते गुणः
स्वरूपान्तरोत्पादलक्षणं संहतौ हेतुता
तेषां
क्षणिकानां नेश्वरादेर123 भेदतः । ईश्वरप्रधानपुरुषादेरकारकाभिन्नस्वरूपत्वान्न
हेतुत्वमित्यु124पसंहारः । उक्तमीश्वरादिदूषणं ॥ (३०) ॥

२. भगवान् प्रमाणम्

(१) ज्ञानवत्वात्

भगवतोपि साधनाभावादप्रामाण्यं परमतेनाशङ्कते ।

  1. पुनरनेकान्तत्वमिह ।

  2. नातिशयोत्पत्त्याऽपि तु संयोगं जनयन्ति सहिताः संयोगात्कार्यमित्याह
    यथाकार्यजननाय नालं तथा संयोगेपि ।

  3. कार्यासामर्थ्यवत् ।

  4. आदिना स्थिरात्मनां ग्रहः ।

  5. तस्मात् स्थितमेव तत्र नित्यं प्रमाणमिति ।