तच्च सत्यचतुष्टयं विनेयानां वक्तुमभियोगः सादरसततप्रवृत्तिस्तद्वान् तायी
चेत्यर्थः । तस्मात् कारुणिकत्वात् सुगतत्वात् शास्तृत्वात् तायित्वाच्च भगवतः
प्रमाणता यथोपदर्शितार्थसम्वादकताऽन्यैरज्ञातचतुःसत्यार्थप्रकाशकता वाऽनुमीयत
इत्यर्थः ।
एवञ्चानुमानानुमेयव्यवहारे स्थिते प्रामाण्यात्तायित्वं हितैषित्वादु
पाया
20b भ्यासाच्च सुगतत्वम्भवतीत्युक्तं ।
(७) संवादकत्वात् भगवान् प्रमाणम्
कस्मा534त्पुनरनेकगुणसम्भारसम्भवेपि प्रामाण्येनैव भगवतः स्तुतिरित्याह (।)
उपदेशस्य तथाभावः सम्वादकत्वं प्रामाण्यं । तेन स्तुतिराचार्येण कृता । तस्य
भगवत उपदेशतः (२८५) प्रमाणस्य तत्त्वं लक्षणं तत्सिध्यर्थं भ ग व द्दे शनायाः535
प्रमाणविनिश्चयो नोत्प्रेक्षामात्रेणेत्याख्यातुमित्यर्थः ।
a. ननु नीलसमङ्गी पुरुषो नीलं जानाति नो तु नीलमिति ब्रुवता भग
वता प्रत्यक्षं दर्शितं । अनुमानं नोक्तं । कथमागमात् प्रत्येतव्यमित्याह (।)
अनुमानेप्यवारणादिष्टिर्दर्शिता । शून्याः परप्रवादा इत्यादिना शाब्दादेरेव
निषेधात् प्रयोग536स्य परार्थानुमानरूपस्य दर्शनाद्वागमेऽस्यानुमानस्य निर्देशः कृत एव
भगवता (।)
तमेव प्रयोगमाह (।)